________________
त्रिदश-तर्राङ्गणी
१७
तथा अरिरंस:-विगतरत्यादिभाव इति । अत्राप्यपरपाठ एवं,किञ्चिप्रसतत्वात लिख्यते-संसार० स्पष्टः । नवरं सुरासूरान ईरयति सेवार्थं य: स तथा । अथवा सुराऽसुराणां या ई:-लक्ष्मी: तां रातीति तथा । सुरसेत्यादि । शोभना नत्यादिरता ये रसासरामनुष्याः, तेषां ऊरु-गरिष्ट, रः-तीक्ष्णं आरं अस्येति, या ईदशी सा लक्ष्मी: शक्तिरूपा [ विशेषतां सरति, सस्रीति [ है. ५।२१३९] निपातनात साधुः । न विद्यते सह आरिरसया यः स तथेति । नवमो मूलश्लोकः व्याख्यातः ।
वीरो रविौं वररो वरोरु, रुवीवरावारविवारिवारी।
रैरोरवो वर्वरवीर वीरोऽ-वरैरिरीरोरुवरोरवारः ॥१२॥ विभाग:-वीरो-रविः-व-वररः, वर-उरु-रुवीवर-अवारवि-बारि. वारी। रैरोरवः-वर्वरवीर:-वीरः अर्वरै-रिरी-र-ऊरुवरोरवारः ।
व्याख्या- वीरो-स्पष्ट: । नवरं यत्तदोनित्यमभिसम्बन्धात् अन्यतरोपादानेऽन्यतरस्य ग्रहणात् स इत्यस्य गम्यमानत्वात् स वीरो वो वररोऽस्त्विति सम्बन्धः। रविवत् प्रकाशकत्वाद् रविः, तत्र वर-ईप्सितं, राति-ददातीति बररः, ईदृशः। पुनश्च वरोरु० इत्यादिविशेपण: । तत्र ऊरु:-महान् विस्तारो वरो यस्य स तथा क्रियाविशेषणम् । पुनः कीदश: ? रुः-भयं, वीवरो-विस्तार, तद्रूपः अवारविः अवार्यतउसमूहः, तस्य वारि-निवारणं, लत्र बारी-बन्धनरूपः, अवार्यभयविस्ताररूपपशुगण निवारणबन्धनस्थानरूपः । रैरोरव: । रा:-जलदः, तद्वद् भश योजनप्रसरं यथा स्यात्तथा, पुन: पुनर्वा भव्यानुग्रहाय देशनाक्षणे रौतीति यडलुप्यौणादिके अप्रत्यये च तथा। अथवा रा:-जलदः, तद्वत् राणां नराणां, ऊ:-रक्षा, तद्धेतुत्वात् सैव वा राणां सूः (ऊः) यस्मादिति व्यधिकरणे, रः-तीक्ष्णः, ऊः-रक्षा कान्तिर्वा यस्मादिति
"Aho Shrut Gyanam"