________________
१६
त्रिदश-तरङ्गिणी सारैरसारैरुरुसारसारः, सुरारसासस्रिरुरेऽरिरंसः ॥ १० ॥
इति विशेषसङ्गतः पाठः । अपरस्त्वेवम्-संसारसंसारिरसारसारि-सारैरसारैररसं ससार । सुरासुरेरः सुरसासरोरु-राराससाससि रसारिरंसः ॥११॥
विभागः-संसार-संसारि-सुरा-सुरेरा-सर-ईर-सारैः-असारैःअरसं-ससार । सारैः-असारैः-उरुसारसारे-सुरारसा-सनिरुरे-अरिरंसः ।।
व्याख्या-संसार-(संसारारण्ये) संसारिणो ये सुरा असुराःतथा ईरायां-भूमौ सरन्तीतीरासराः- मनुष्यादयःतान् ईरयन्तिअर्जनरक्षणादिक्लेशेपु प्रेरयन्ति, यानि साराणि तैः कृत्वा, वृत्तगतस्य यच्छब्दस्यहाऽपि सम्बन्धात् यः, अरसमिति 'रसः स्वादे जले वीर्य, श्रृङ्गारादौ विषे द्रवे । वोले रागे देहधातौ, तिक्तादौ पारदेऽपि चे॥१॥ ति ( हैम० ) वचनात नमो विरुद्धार्थाभिधायित्वाच्च अरागं-नीरागतामित्यर्थः। ससार-प्राप्तवान् । भवतिहि धनादीनां सुराऽसुरमनुजपशुताहेतूनामप्यनित्यतापरिणामादिदुःखहेतुतादिविभावनेन महतां नीरागताऽपि 'जे चेव उ मोक्खस्स भवस्स ते चव तत्तिया हेउ' त्तिवचनात् । साराणामरसहेतुतामेव विशेषणद्वयेनाह-सारैरिति सह (आरैः) चौराऽनलादिप्रतिपक्षौः अत एव असारैः-अश्रेष्ठैरिति । यः कीदृशः? उरुसारसारइति। उ (:) सारसे (उरुः सारः) 'सारो मज्जाऽस्थिरांशयोः । बले श्रेष्ठे च सारं तु, द्रविणन्याय्यवारिष्विति ( हैम०) वचनात् सारश्व-बलं, सा च लक्ष्मीः-मुक्तिभाव्यनन्तवीर्यज्ञानादिलक्ष्मीरित्यर्थः। तां रातिददातीति । तथा सुराः शोभनो मेघः, कस्मिन् ? रसासस्रिरुरे । रसायां-भुवि सरन्तीत्येवंशीलाः 'सनि चक्री' है०५।२।३६] त्यादिना निपातनात् रसासस्रय्यो-मनुष्यादयः, तेषां रुः-भयं 'इहपरलोयायाणे' त्यादिना सप्तप्रकारं, स एव रोदहनस्तस्मिन् ।
"Aho Shrut Gyanam"