________________
१८
त्रिदश-तरङ्गिणी
समानाधिकरणे बहुनीहौ वा, एवंविधो (रव:) देशनाध्वनिर्यस्य स तथा । यथा अब्दो जातः क्षदाद्यपद्रवरक्षाकान्त्यादिहेतुस्तथा भगवानपीति भावः । तथा वर्वरं काममेव वीरं विशेषेण ईरयति स तथा । अर्वा-अश्वः, रा:-स्वर्ण, रिरी:-पित्तल, शेषोपलक्षणं (न) तेषां रा-दानं तेन उरुवदाचरन्तः रोरवारा यस्मात्म तथेति । (दशमो मलश्लोको व्याख्यातः) अर्थतः प्राय: सर्वेषां सम्बन्धत्वेऽपि उक्तितस्त्रिभिविशेषकमित्युक्तम् । एवं मया भासुरपञ्चवर्ण-सुवृत्तपैथितां सदाम् । श्रीवोरनेतु. स्तुतिरूपमाला, जुधाः! समादाय तमर्चयन्ताम् ।।१३।।
व्याख्या-स्पष्टं । नवरं-अर्चयन्तामिति । अचिण् पूजायामित्यस्मात् णिजि परस्मैपदमेव स्यात्तेनापप्रयोगः । यौजादिकत्वेन विभापया णिग्भाले तु इदित्त्वादात्मनेपदमेव । अर्चतीति प्रयोगस्नु भौवादिकस्य, तथा च कविरहस्ये
अर्चते चन्द्र चूडं ओ, गुरुमने तथाऽचंति ।
अर्चयत्यनिशं विप्रान, कर्णधारान् भवार्णवे ॥१४॥
इति युगप्रधानावतार० श्रीपर्युषणापर्वमहाविज्ञप्तित्रिदशतरङ्गियां द्वयक्षरवृत्तः पञ्चाक्ष रश्रीवर्धमानस्तवनामा षष्ठः पुटभेदरूपस्तरङ्गः । क्षिप्तैः सन्देहबाणैः सपदि तनुगतै पीडयित्वा निबद्धान । स्नेहोद्यत्पााकैश्च स्ववशमधिगतीकृत्य मोहप्रद (हटे। निश्शल्यान यो विधाय स्ववचनसदयस्कान्तयोगाद् गणेशान । हत्वा मोहं विनोच्य व्यधिश निजभटान् वीरनेता स पातु ।।
इतिषष्ठतरङ्गचूला । यस्यागमोत्था पहाडक्तिपुज्ज्वलां, दृष्ट्वा बुधा पुतिपुरीमुपेयुषः। श्रये युरद्यापि तदध्वनीनतां वीरोऽवतात् सार्थपतिः स वो भवात् ।
इति (षष्ठ) तरङ्गस्य प्रतिचूला ।
"Aho Shrut Gyanam"