________________
त्रिदश-तरङ्गिणी वचनात् विघ्नं, प्रक्रमाद् ध्यानस्य. रीणाति-याति यः कचित् [है०५-१-१७२] डे स तथा। मारी-जनक्षयः. तां रान्ति-ददति. आमा-रोगाः, रमा, तस्या-मारो-विनाशः, मारहैतुत्वात मार इति व्यपदेशः । सम्बोधनं चेदं। रः-कामः, स च रो-दहनः, र:तीक्ष्ण [यो र:-कामः इति वा तं माराम आदाय, (१) यत्तदोनित्याभिसम्बन्धात् स इति क्रियायां मध्यमपुरुषादिना त्वं चति गम्यंमम हे अमम ! इति कुलकम् ।। ६ ।। ( इति मूलषष्ठश्लोकव्याख्या) ययीममायामयमाययौ य याऽऽयाय्यामयामयमाऽययेयः । योयूययायायममेयमाय-यामोमयायाऽमम मामयामः॥८॥
इति सुसङ्गतः पाठः। विभागः--ययीम्-अमायामयम्-आययौ-ययाऽऽयाम याय्या ऽऽमय-म-अय--येय.--ययीममायामयमाययौययायामयाय्यामयमाययेयः। योयूय-यायायं । अमेयमायो, यामोमयाया-ऽसम. मामय-अमा (म०)।
व्याख्या-ययीव्ययीमिति। याधातोः “यापाभ्यां द्वे च' (उणा०) [७१४] इति किदीप्रत्यये द्वित्वे च सिद्धौ मोक्षमार्गम, अमायामयः आययौ च य इति सम्बन्धः ( रोयः) [है०१।३।२६] कीदृशः ? इत्याह-आयाम-विस्तारं यातीत्येवंशीला आयामयायिनः, ये आमयाः-रोगाः, तान् मिनोति-हिनस्तीति कचित् [है०११।१७१] डे, तथा अयेन-शुभदेवेन, यायते 'गत्या ज्ञानार्था' इति वचनात् यायते-प्राप्यते इति अययेयः-शुभकर्मणकोपलन्य इत्यर्थः । नहि भाग्यं विना जिनः परमेष्ठिदेवतया सम्यग् उपलभ्यते इति । कथमाययावित्याह-आयायमिति, आ-आभिमुख्येन अयनमाय-आगमनमित्यर्थः। लाभस्य प्रक्रमात् कैवल्यादिसम्पदागमनं यथा स्यात् तदनुकूलमित्यर्थः। क्रियाविशेषणमिदं । तथा योयूय इति ‘युक् मिश्रणे' इति धातो र्यङि अचि च निष्पत्तौ भृशं
"Aho Shrut Gyanam"