________________
त्रिदश-तरङ्गिणी
लक्षणत्वाद् रजतादीनि च, रायश्च-स्वापतेयानि, 'गामश्वं पुरुषं पशु मित्यादिवत् समुच्चये चोऽत्र गम्यः। यां-प्रकरणात् प्रव्रज्यामयीं लक्ष्मी, समवसरणादिरूपां निसङ्गताकालभाविनीं तीर्थकृल्लक्ष्मी वा, यः श्रीवीरः (रोर्यः) [है०१३३६ ] आर्याणांसुजनानाम्, अर्यः-स्वामी, (रोयः) आययौ-प्राप्तवान् । यः कीदृशः? रेरारियाररारार्या-रेः अति (इति राणां)-नराणां राः-तीक्ष्णाः , ये अरयस्तेषां यस्य-यमस्य, यद् अरर-गृह, तत्र आरार्या-आटाट्याभृशं गतिः लोकरूढया शरणमिति भावः। तां राति-ददाति या, ईहशी इरा-'इराम्भो वाक सुराभूमिष्वि' तिहैमवचनात् वाकदेशनालक्षणा यस्य स तथा, भव्यनरतीवरागाद्यरिघातकदेशना इतिभावः । रोख्याः (अचि । [है०५।१।४६] (नोतः) [है०३।४।२६] आपद्गतया भृशं रोदनोच्चारा कृतः (?) रोराः (रङ्काः) तेषां रि (रा:) हेतुत्वाद् धनम् ॥ ५॥
माराऽऽरामामरोमोर्मि-रामामारममाररम् । मारीरामारमामार ! ररमारां ममामम ! ॥७॥ (मूलश्लोकः ६) विभागः-मार-आराम-अमर-उमा-ऊर्मि-रामा-मा-आरं-अमार-रं-मारी-रामा-रमामार-[ममाररा-मारी र-आमा-रमा मार ! र-र-मारां-मम-अमम-मारीरामारमामार! ररमारां ममामम।
व्याख्या-मारा०मारस्य-कामस्य, विश्रान्तिहेतुत्वात् आरामसदृश्यो या अमराणां 'उमोर्मिरामा' इति, उमा:-कान्तयः, तासामूयः-कल्लोलाः, बाहुल्यादेवमूर्मिशब्देन व्यपदेशः, ता एव गुणगुणवतोरभेदोपचारेणैवं व्यपदेशात् उमोर्मिभाजः याः रामाः-स्त्रियः, तासां मा-लीलादिलक्ष्म्यस्तद्र पैः आरैः-अरिसमूहैः, 'अमारर' इति । न मारं 'मारोऽनंगे मृतौ विघ्ने मारी चण्डयां जनक्षये' इति (हैम०)
"Aho Shrut Gyanam"