________________
१०
त्रिदश- तरङ्गिणी
[ है ०४३।४४ ] इति वृद्धौ च निष्पत्तिः । भृशमपुनरावृत्त्या प्राप्तवानित्यर्थः । त्वं किमित्याह - आरं वैरिणो वाह्यस्य चान्तरस्य च अरु ( मङ्गलं ) [ णं ] तद्धि यथा नरमुच्चाटयति तथा त्वं द्विविधमप्यरिमिति भावः । जातौ एकवचनं । तथा राडररमिति । ररस्य ग्रहणात् ( ? ) हेर ! 'रः कामे, तीक्ष्णे विश्वानरे नरे । रामे बजे च शब्दे स्यादि' त्येकाक्षरनिघण्टुवचनाद्, वज्र ! कस्मिन् ? रारे । रः कामः स एव बहुभ्योऽरिभ्यो दुर्जयत्वाद् आरमिवारअरिसमूहस्तस्मिन् । त्वं किमरारीरित्याह- अररमिति । ऋधातोरोणादिके अस्प्रत्यये निष्पत्तेः गृहं, कीदृशं ? अरुः, 'रुः सूर्ये रक्षणेऽपि च । भये शब्दे चे' ति सुधाकलशनिघण्टुवचनात् निर्भयं 'इहपरलो गादाणमकम्हा - आजीव- मरणमसिलोए' इत्यागमोक्तसप्तभयरहितत्वात् मोक्षरूपमितिभावः । अत्र 'अ इ उ वर्णस्यान्तेऽ नुनासिकेऽजीदादेः' दधिं दधि मधु मधु इत्यादिवत् । त्वं कीदृशः ? रौ (रु-भयं तस्य रु-रक्षणं यस्माद् यस्य वाद्यपदेशः ( ? ) तथा अररोरा । उणादिनिष्पत्त्या अररं- कपाट: 'तद्वद्विशालतादिगुणमुरो-हृदयं यस्य स तथा । 'ररीररा' इति, रा-नरास्तेषां रीभीतिः, सैव रो-वैश्वानरः, तस्मिन् रा- मेघ इव मेघः, तथा अत्र रराररिरितिपाठे तु रा-नराः ता-रायति - शब्दयति रक्षार्थं य; स चासौ अररिश्च कपाटश्चेति ॥ २ ॥
।
सुरासुररसासारि-सारसाराऽरिराऽरसः संसारसरसीसूरु-सूरः संसारिसाररः ||३|| ( यद्वा) - सुरासुररसासार - सारैररससंसर: । संसारसरसीसारि--संसारिरसुरारिसः । ॥४॥
इति सुसङ्गतः पाठः । इति तृतीयो मूलश्लोकः । विभागः - सुर-असुर - रसा - सारि-सार- सार - अरि-र-अरसः । संसार- सरसी-सु-उरु- सूर-, संसारि - सारर:-॥२॥
"Aho Shrut Gyanam"