________________
त्रिदश-तरङ्गिणी स्नेहक्षयान्निर्वृतिभाक् सुपावकः, श्रीपार्श्वदीपोऽस्तु शिवश्रिये सताम।।
इतिपञ्चमतरङ्गस्य प्रतिचूला एवं नित्यनिरञ्जनाऽव्ययपदं श्रीपार्श्वनाथं मुदा, ( शेषं पूर्ववत् )
इतिपञ्चमतरङ्गस्य समर्थनापङ्क्तिः ।।
अथ श्रीत्रिदशतरङ्गिण्यां प्रथमे मङ्गलस्रोतसि षष्ठः तरङ्गः । जयश्रीसदनं योऽभूद्, विजित्य मदनद्विषम् । महानन्दपदं वीरं, पञ्चभिस्तं स्तुवेऽक्षरैः ॥१॥ रैरिरीरोरुरारोरे-रेराऽऽरारीरारारुरा ।
रारं रारेऽरुरुरु-रररोरा रीररा (रराररिः) ॥२॥ विभागः-रैरिरी-ईर-उरु-रा-रोर--ईर-ईर-आरारी:-आर-अरु-रा रैरिरीरोरुरारोरेरेरारारीरारारु रा। राररं-रारे-अरु-रुरुः-अररोरा-ररीररा (रराररिः)। __ अथ वाचयितृणां प्रयासरक्षासौकर्यार्थमस्य पुटभेदतरङ्गस्य किञ्चिद्वृत्तिवेला प्रादुश्चक्रीयते। तथाहि-तत्र प्रथमः श्लोकः स्पष्ट एवेत्युपेक्ष्यते । द्वितीयश्चैकाक्षर:---रैरिरी' त्यादि। व्याख्या-हेवीरेति सम्बोधनं सौकर्याय गम्यते । हे रैरिरीरोरुरारोरेरेर ! राः स्वर्ण, रिरी:-पित्तलं, उपलक्षणात्सर्वधातवः, ईरेण-इच्छया अर्थिनामित्यर्थः, यद् उरु-वरिष्ठं, रा-दानं तेनरोरान् रङ्कान् ईरयति-प्रेरयति दानग्रहणार्थ यः अणि रैरिरीरोरुरारोरेरः, स चासौ ईरश्व-लक्ष्मीदश्चेति । क्रियायां मध्यमपुरुषादिना त्वमिति गम्यमानत्वात् त्वं, आरारी:, 'प्रापणे' चेति धातोर्यङ्लुपि अद्यतनी सौ सिचि द्वित्वे मृतोऽति रीरौ . [ हैम०४।१।५६ ] ति रागमे ईति चेति ढ इति [ हैम० १।३।४२] सिचो लोपे 'सिचि परस्मै'
"Aho Shrut Gyanam'