________________
त्रिदश- तरङ्गिणी
याचन्ते सेवमानाः सममित्र मिलिता विष्ट पप्रेष्ठदेष्टा, पिष्टारिष्टारिकष्टः स भवतु भवतामिष्टसंसृष्टिपुष्टयै ॥ ४ ॥ यस्यापारप्रभावप्रवरजलनिधौ शर्करीभूय चक्र - चिन्तारत्नानि वासं त्रिदशघटगणाः कम्बुकीभूय चापि । नानारूपैश्च भेजे जलचरपदवीं देवधेनुः सुरद्रु-
श्रेणीतीरद्रमत्वं प्रतिदिनममराः स्नातकत्वं च बभ्रुः ॥ ५ ॥ मन्त्रास्तद्घोषरूपास्ततिरपि ववृधे शीकरैरौषधानां, वीचीनां चानुकारो बहुविधमभितो नर्तितानां मरुद्भिः । लिप्तैर्यन्त्रैश्च जनुर्महिमगुणपदं तत्तदा द्योतिकानि, स्यात् सेवा निर्मिता यन्नहि हि सुमहतां निष्फला लेशतोऽपि ॥ ६ ॥ युग्मम् ॥
नूनं यन्नाममन्त्रे सकलसुखरसाः संवसन्ति प्रकामं, शब्दार्थानां च योगो लसति मम मनस्यत्र तादात्म्यमेव । एताः सद्यः स्फुरन्ति प्रकटमसुमतां यत्तदुच्चार मात्रात्, पार्श्वो विश्वार्चनीयः स भवतु सुलभासेवनो मे सदाऽपि ॥ ७ ॥ विश्वत्राणप्रणालीप्रकटितकरुणाऽपारपाथोऽधिसारः, सर्वाभीष्टार्थदानावगमितमहिमाम्भोधिरद्वतधैर्यः ।
श्रीमान् विश्वावभासी फणमणिकिरणोल्लासिताशः प्रकाशः, कुर्यात् पार्श्वप्रभु त्रिभुवनमहितोऽनन्तसम्पद्विलासम् ॥ ८ ॥ इति श्रीयुगप्रधाना० नमस्कार मंगलस्रोत्तसि श्रीपार्श्वजिनस्तवनाष्टकनामा
पञ्चमस्तरंगः ||
धत्ते कल्पलता स्वमूर्तिसरसि प्रोद्यन्मणीपल्लवान्, सप्ताहीन्द्र फणच्छलात्रिजगतीरक्षैकदीक्षागुरुः । सप्तद्वीपसमुद्रगाङ्गिनिकराभीष्टार्थदानाय यः, स श्रीपार्श्वविभु स्तनोत्यविरतं श्रेयस्ततिं भाविनाम् ॥ १ इतिपञ्चमतरंगचूला श्रीपार्श्वजिनाशीर्वादरूपा ॥ दशावतारी विमलाञ्जनय ति महाप्रकाशः सकलार्थदर्शनः ।
"Aho Shrut Gyanam"