SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी नूनं येन जगद्धिडम्बनपटुर्दासीकृतेशाच्युतः कामोऽधानि तदाद्यभूच्चपलतादोषः श्रियः प्राग नतु। सारापत्यवियोगजारतिभृतः स्थेमाहि मातुः कृतः१, श्रेयोरातु सुखाकृतत्रिभुवनः श्रीनेमिनाथः स वः ॥१०॥ इति चतुर्थतरङ्गचूला श्रीनेमिजिनाशीर्वादरूपा॥ अञ्जनश्यामलेनाऽपि येनाङ्गिना, तन्मयीभावमाप्तानि चेतांस्यहो । चारुवेशद्यमाबिभ्रते श्रेयसां, सन्तति रातु नेमिजिनेन्द्रः स वः॥१॥ इति चतुर्थतरङ्गस्य प्रतिचूलाऽपि एवं नित्यनिरञ्जनाऽव्ययपदं श्रीनेमिनाथं मुदा, शक्रालीमुनिसुन्दरस्तवगणे तक्रमं यः स्तुते सर्वाभीष्टसुखोच्चयैरविरतं स्फूझत्प्रमोदाऽद्वयो, मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ।। १२ ॥ इति चतुर्थतरङ्गसमर्थनापङ्कितः।। जन्मस्नात्रेतु यस्याद्भुतमहिमभराऽद्व तरूपस्य देहस्पृष्टः पाथःप्रवाहैः सुरगिरिशिखरे प्रस्फुरद्भिः समन्तात् । जज्ञः सेकप्रभावादभिमतफलदाः कल्पवृक्षा अपीमे, स श्रीदेवो (जगत्यां ) जयति तनुभृतां चिन्तनाऽतीतदेयः ॥॥ पाथोथै रिवाहैः किल सहगतया विद्युता वारिराशौ, प्राप्तैः संयोगमाप्याम्बुनिधिहुतभुजोऽजानि पद्यानि वहि नः । लेभेऽसौ यत्प्रवृद्धिं कमठहठभरप्रेरिताऽकालकालः, स्फूर्जजीमूतमालोद्भवदऽतुलजलासारसिक्तोऽपि युक्तम् ।। २॥ चक्रे यस्योपरिष्ाद्भुजगकुलपतिः साक्षिणि ध्यानवह नौ, कैवल्यश्रीविवाहः फणमणिकिरणैर्मण्डपं मण्डिताशम् । दैत्येन्द्रश्चैष तेने जलधरपटलातोद्यनादान् विचित्रान्, स श्रीपार्श्वप्रभुर्मे भुवनभयहरो रातु निःश्रेयसाप्तिम् ॥३॥ युग्मम् ।। यस्य स्फारांतरङ्गप्रसृमरतिमिरग्रासविज्ञानलीलां, सप्तद्वीपघु नाथाः फणिफणमणिभामण्डलव्याजभाजः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy