________________
त्रिदश- तरङ्गिणी
सिद्धानन्तगुणस्य यस्य विधिना प्रक्षालितस्याभितो, व्याप्याशेषजगत्त्रयं स्थितवतो व्योमद्र हे ज्योतिषः । उत्तीर्णास्तुषराशयो ग्रहगणव्याजादमुष्य प्रभोः, सर्वज्ञस्य पदावनुत्तरचिदानन्दाप्तये तोष्टुमः ॥ ४ ॥ सान्द्रानन्दमुपास्महे भगवतो निःश्रेयसश्रीपतेः, सर्वज्ञस्य पदाम्बुजं निरवधौ प्रज्ञानदुग्धाम्बुधौ । अभ्रं शैवलतिवसा (क्षमा) धरगणाः शङ्खाद (य) यन्त्यर्णवाः, पीयूषन्ति च मौक्तिकन्त्युडुगणा मीनन्ति विश्वानि च ॥ ५ ॥ सम्यक्तत्वप्रवोधेऽनघविधिनिरुपध्यातसाम्यैक सात्म्याद, हेयोपादेयचिन्ताव्यतिकरविधुरीभावमुल्लङ्घय वृत्तौ । सर्वोपाधिप्रणाशादुपरतसकलद्वन्द्वभूयो विवर्त्त-
स्तादृक् तैरेव लभ्यः क्षिपतु सकलहग्गोऽतिनिन्द्यां स विद्याम् ॥ ६ ॥ यत्सत्तां परिनिश्चिनोति विलसच्चिन्तारतस्यानुमा, भावानामनुमानगोचरतया चाध्यक्षमानार्पणम् ।
शास्त्रोक्तार्थततेर्यथावद्विसंवादित्वमप्युच्चकैः,
सर्वज्ञं तमुपास्महेऽस्तु कुमतध्वान्तप्रबोधाप्तये ॥ ७ ॥ आज्ञाराधनतत्परेषु विदधत् सम्यक्पदं निर्वृ तो, नाकश्रीललितान् दधाति विषवान् सन्न्यायमुद्रां दधत् । शुद्धोपायगुणप्रकर्ष कलितं यच्छासनं राज्य -- द्विश्वव्यापि जयत्यनन्तमहिमाधारः स सर्वज्ञराट् ॥ ८ ॥
इतियुग प्रधानावतारवृहत्तपागच्छाधिराजश्री परमगुरुश्री देव सुन्दर सूरिचरणकमल सोभाग्य गुणमहिमावानुगामिन्यां विनेयजनपरमाणुश्री मुनिसुन्दरमणि
हृदय हिमवदवतीर्णविस्तीर्णगुरुप्रभावपद्महदप्रभवायां श्रीमद्दापर्वविज्ञप्ति त्रिदशतरङ्गिण्यां प्रथमे नमस्कार मङ्गलस्रोतसिः मङ्गलन्दश्लोक सर्वज्ञाष्टकनामा
प्रथमस्तरङ्गः ॥
"Aho Shrut Gyanam"