________________
३
त्रिदश-तरङ्गिणी यस्य ज्ञानसरोवरे निरवधौ वातोद्ध ताम्म्मःकणप्रख्योडुप्रकरायितं जलजति व्योमाष्टकाष्ठादलम्। सूर्याचन्द्रमसौ मरालतुलनां धत्तश्च रातु प्रभुयोगिध्यानपरम्परापरिचितश्रेयः स सर्वार्थवित् ।। १ ।।
इतितरङ्गान्तराशीर्वादः, तरङ्गचूलाप्रायः।। एवं नित्यनिरञ्जनाव्ययपदं सर्वार्थसंवेदिनं, शक्रालीमुनिसुन्दरस्तवगणतक्रमं यः स्तुते । सर्वाभीष्टसुखोछयैरविरतं स्फूर्जप्रमोदाद्वयो, मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥ १॥
इतितरङ्गप्रतिचूलाऽपि । देवा यस्य शिवश्रियस्त्रिजगतश्वेतांस्यतीता द्विधा, ब्रह्मशाच्युतचन्द्रभानुमघवन्मुख्याश्च तत्प्रार्थकाः । सर्वाशाप्रमृताः शतं च विदिताः शाखाः परानन्दचिद्रूपः कल्पतरुनवः स ददतां श्रेयो युगादिप्रभुः ॥ १॥ राज्यं सनुष दानमासनकलाज्ञानप्रभावांशकान् यः कल्पद्रुमचन्द्रभानुमुनिसन्म (त्तीर्था) शकेषु न्यधात् । मन्ये मुक्तिपुरी ब्रजन् जनहितायैतानि तत्सन्ततिष्वाप्यन्ते ह्यधुनाऽप्यसौ विजयते श्रीमान् युगादीश्वरः ।।२।। मुक्तिर्यस्यप्रयातत्रिभुवनजनतोद्भूतदुःखातितापव्यापध्वंसाय ध्माताजडिमजलनिधेनूनमादाय विन्दून् । चिन्तारत्नं चकारामरतरुसुरभीकुम्भमुख्यांश्च भावान्, स श्री नाभेयदेवो वितरतु परमानन्दसम्पद्विलासम् ।।३।। विश्वं यस्यालवालो महिमभरतरोः कल्पवृक्षाश्च शाखाश्चिन्तारत्नानि पुष्पप्रकरसमुदयः कामकुम्भाःफलानि । सिक्ता ध्माताधिकूपाहृतजलनिभृतैर्वारिदस्फारकुम्भ--- जीयात् कश्चित्पुराणस्त्रिभुवनमहितः पुरुषोऽसौ युगादिः॥४॥
"Aho Shrut Gyanam"