________________
॥ श्रीजिनेन्द्रो विजयतेतराम् ॥ आगमोद्धारक-आचार्य श्री आनन्दसागर सूरीश्वरेभ्यो नमः । सहस्रावधानि-श्री मुनिसुन्दरसूरिप्रवरप्रणीता
त्रिदश-तरङ्गिणी जयश्रिप्राप्तिसौभाग्य-श्रेयांसि ददतां सताम् । महोदयं समृद्धींश्च, श्रीजिनः कल्पपादपः ॥१॥
शब्दरूपं मङ्गलाष्टकमाविष्कुर्वन् श्रीमहापर्वविज्ञप्तित्रिदशतरङ्गिणीप्ररोहमूलं पद्महदतुलां कलयत्ययं श्लोकः । सान्द्रानन्दैः सुरेन्द्र प्रकटितमहिमोल्लासितश्रीप्रकर्ष, दुर्गग्रन्थप्रमाथप्रथितविभुबलक्षिप्तदुष्कर्मशत्रु ।। एकान्तात्यन्तसाताभ्युदयि विजयते केवलं यस्य राज्यम् , त्रैलोक्यव्याप्यनन्तं स जयति भगवान् कोऽपि सर्वज्ञराजः ॥१॥ ध्यानाभ्यासप्रकर्षात् पवनसहचरीभूतचेतःप्रशान्ति, सम्प्राप्यो (पाग्रजापात् ) सहजनिरुपमानन्दसान्द्रप्रवोधैः। योगीन्द्रः कुण्डलिन्यां नियमितमरुदापूरितब्रह्मरन्ध्रयेयं यस्य स्वरूपं स जयति पुरुषः कोऽपिसर्वार्थवेदी ॥२॥ यस्य ब्रह्मार्णवान्तविधिहरिपुरभिद्वज्रिमुख्यामराणां, ज्ञानश्रेणी मुनीनामपि परिमिलिता निन्नगाऽऽलीव भाति । तेजांस्यादाय वाब्दा इव जलनिचयान् भानुवद् यातुविश्वं, प्रीणन्ति(जाति) स्वाववोधं सकलभुवनवित् कोऽप्ययं नः प्रदेयात्॥३॥ : * जयः श्रीः सौभाग्यं श्रेयः सत् महोदयः समृद्धिः कल्पः ( इति मंगलशब्दाष्टकम् )
"Aho Shrut Gyanam"