________________
स्तोत्री
त्वशब्दाकारलोपे अकारसम्बन्धे च 'टाइयोसि यः' ।२।१७) इति दो यः। अरिरिवारिः, भवश्वासावरिश्च 'उपमेयं व्याघ्राद्यैः' ।३।१।१०२। इति कर्मधारयः । एवमन्यत्रापि रूपके। वीक्षितस्त्वं
येन स तम्मै, · त्वमौ प्रत्यय०' ।२।११११॥ इति 'तुभ्यं मह्यं या' ।२।१।१४। इति द्वयोः प्राप्तौ परत्वात्तुभ्यमादेशः । - स्पृहेाप्यं वा' ।।२।२६॥ इति सम्प्रदानत्वे चतुर्थी, अदन्तस्य स्पृहयातोणिचि अलुक्यपि स्थानिवद्भावाद् गुणाभावः ॥ ३ ॥ नतत्वत्पुरुषादोषा, रोषाद्या यान्ति दूरतः । सम्यध्याततव स्वामिन् , सिध्यन्ति च मनोरथा:
॥४ ॥ अव०-नतस्त्वं येन तस्मात्, ‘उसेश्चाद् ' ।२।१।१९। इति अदादेशे - शेषे लुम्' ।२।१८। इति दलुक् 'लुगस्य' ।२।१।११३। इति अलुक् । पुरुषादित्यत्र दूरशब्दयोगसद्भावाद् 'आरादर्थः' ।।२।७८। इति पञ्चमी । सम्यक् ध्यातस्त्वं येन. तस्य । अत्रापि · त्वमौ प्रत्यय' ।२११११॥ इति 'तव मम' १२।१।१५। इति सूत्रयोः प्राप्तौ परत्वात् तवादेशः। विशेषणबलाजनस्येति विशेष्यं ग्राह्य । एवमग्रेपि ॥ ४ ॥ स्तुतत्वयि नरे नाथ!, विलसन्त्यखिला: कला:! उपमानोपमेयत्वं ! चिरं जिया जिनेश्वर! ॥५॥
"Aho Shrut Gyanam"