________________
अष्टादश
।
,
अव० -- स्तुतस्त्वं येन तस्मिन् । प्राग्वत् त्वादेशे 'टायोसि' | २|१|७| इति दो यः । अथ सम्बोधने प्रथमैकवचनं, यथा उपमा० - उपमानं च उपमेयच त्वं यस्य तव स. हे उपमानोपमेयत्वं ! | अनन्यसाधारणस्य तव उपमानं उपमेयश्च त्वमेवासीतिभावः । ' ये देव ! भवतः पादौ भवत्पादाविवाश्रिताः ' इत्यादिष्विवानन्वयालङ्कारः । ' उपमानोपमेयत्वे एकस्यैवैकवाक्यगेऽनन्वय ' इति काव्यप्रकाशवचनाद् । द्वयाश्रये द्वितीयसर्गे ९ वृत्ते प्रेयश्वतस्रः प्रियतिस्र ईशास्तिस्रश्चत 'स्रोपि वधूर्विहाय' अत्र प्रेयश्चतस्रः प्रियतिस्र इति १५ काव्ये 'रात्रौ गतायां वियुतावीह स्वपद्यवय्यी ' ति, तथा तत्रैव २० काव्ये 'त्वां मां धिगावां च युवां तथाऽस्मान्, युस्मान्न यत्सत्तव सन्ममेशः। अत्र सत्तव सन्ममेति प्रयोगविशेषणं सर्वादिसङ्ख्यं च बहुव्रीहौ |३|१|१५० | इत्युक्तपूर्वनिपातस्याऽनित्यत्वदर्शनात् न उपमानोपमेयशब्दात् प्रागू युष्मच्छन्दस्य निपातः । एवमन्येवयुदाहरणेषु ज्ञेयं । क्तान्तानां प्रियस्य च 'क्ताः' | ३|१|१५१ | 'प्रिय' | ३|१|१५७ | इति सूत्राभ्यां युष्मच्छदात् प्राग् निपात सिद्ध एव ॥ ५ ॥ युष्मत्पदान्यपदगैकवचः प्रयोगैः, स्तुत्वेति पार्श्वजिन ! सद्गुणभाजनं त्वाम् । एकं प्रभुं त्रिभुवनेऽपि भवे भवेऽहम्, याचे शिवप्रतिभुवं ननु बोधिलाभम् || ६ ||
"Aho Shrut Gyanam"