________________ त्रिदशतरङ्गिणी श्रीवामेयजिनावसेनवसुधाभृदंशभषा प्रणे !, त्वद्भक्तत्रनपालमाहितमनःपद्मावतीसेवित ! ! नार्थ त्वां शरणं श्रितोऽस्मि विविधक्लेशाकुलस्तन्ममा--- ऽशेषद्वषिभयान्यपास्य परमानन्दं प्रदेाक्षरम् // 8 // म्सुतिमिति तनुते जिनेन्द्र ! यस्ते, मत्रमहामुनिसुन्दरस्तुतांहेः / स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराऽचिरान् ममापि ॥९॥वता . इति० त्रयोविंशश्रीपार्श्वजिनस्तोत्ररत्ननामा त्रयोविशो मूलतश्च तरङ्गः।। अथ श्रीवर्द्धमानजिनस्तोत्ररत्नम् 24 ( वंशस्थम् ) जयश्रिये कर्ममहारिसन्ततेः, स्तुवन्ति यं विश्वगुरुं सुयोगिनः / तदर्थताया वशतोऽहमप्यन, निरञ्जनं वीरजिनं स्तवीमि तम् // 1 // न केवलं नाथ ! स सान्वयाभिवो, बभूव सिद्धार्थधराधवः क्षितौ / तवावतारेण जगत्त्रयीननो-ऽप्यवाप, सिद्धार्थतयैव सम्पदम् // 2 // त्वादृक् सुताप्त्यै त्रिशलां तनुं स्त्रियाः, श्रितां स्तुमस्तां किल विश्वदेवताम् / बभवुषी या तव जन्मकर्मणा, सुरेश्वराणामपि संस्तुत: पदम् // 3 // तुल्ये कुरङ्गक्षितिकर्मणि प्रभो !, कथं शिवे ते नरके तु में गतिः / ममाप्यदो देहि जगच्छिङ्कर !. त्वामर्थयेतेति हरिः किलाङ्कभाका 4 // भजन्ति मातङ्गसुरार्चितौ पदो, सिद्धायिकासेव्यतमौ तवेश ! ये। कलां त्वदीयामचिरादवाप्य ते, मग-सु वृत्ति दधते सुपालिनीम् // 5 // स्थैर्यतस्त्रिजगतीजयिनो मे, क्योपमान मिममाहुरिहार्याः / कम्पयन् सुरगिरिं चिति तान् योऽ- बुधजयति वीरजिनोऽयम् // 6 // (स्वागता) भवभयहरणं जगच्छरण्य, शरणमहं तमुपैमि बर्द्धमानम् / कलियुगवनदुर्दिनऽधुनापि, स्फुटयति तत्त्वपथान यदागमार्कः॥७॥ (वैता.) एवमानुत ! भवारिजयश्री-प्राप्तये निरुपषि मम सोधिम् / वर्द्धमानजिन ! देहि यतः स्या-मर्थतस्तव पितुः समनामा / / 8 / / (स्वागता। "Aho Shrut Gyanam"