________________ स्तोत्रसञ्चये स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुतांहः / स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराऽचिरान् ममापि // 9H // 3 // // 4 // इति० चतुर्विंशश्रीवर्द्धमानस्तोत्ररत्ननामा चतुर्विशो मूलतश्च तरङ्गः // ___अथ श्रीवईमानजिनस्तोत्ररत्नम् 25 (रथोद्धता) मङ्गलानि स ददातु भाविना, वीरतीर्थपतिरुल्लसन्महाः / यस्य धर्ममधुनापि बिभ्रतः, प्राप्नुवन्त्यरिजयश्रियं बुधाः // 1 // उपेयुषो यस्य शिवं तदागमोद्भवां बुधा वीक्ष्य पदावली स्फुटाम् / अयेयुरद्यापि तदध्वनीनतां, स वीर ! सार्थप्रभुरस्तु मे मुदे // 2 // श्रीधर्मकल्पद्रुरयं यदुप्तः, प्रबुद्धशाखो भरतावनीतले / फलत्यभीष्टेरधुनापि सौख्य-फलैमजे तं त्रिशलातनूजम् सुखं स तन्यान् मम वर्द्धमानो, जगत्प्रमुर्निर्वृतिलक्ष्मिनाथः / शिवं यदाज्ञानुगमाल्लभन्तेऽन्यथा तु जीवा भवदुःखदण्डम् रागादिदोषगदनिर्दलनाय येषां, सिद्धौषधन्ति वचनानि शरीरिबर्गे / अद्यापि भान्ति सरसानि शिवङ्कराणि, वीरो महाभिषगयं जगतां मुदेऽस्तु // 5 // वितरतु स सुखानि वर्द्धमानः, प्रणतिमतां भगवानभङ्गुराणि / कलिघनतमदुर्दिनेऽधुनापि, स्फुटय ति तत्त्वमणीन् यदागमार्कः // 6 // (औपच्छन्दसिकम् ) दानाद्यहिबलः कुतर्कमृगमुक् स्याद्वादवादस्फुरत् क्ष्वेडस्तीर्थमतङ्गनान् विमदयन् स्फूर्जत्प्रभावालधिः / रक्षन् शासनकानन विजयते यद्धर्मपञ्चानन स्त्रैलोक्याप्रतिमाप्रधयॆमहिमा वीरप्रभु तं श्रये // 7 // "Aho Shrut Gyanam"