________________ स्तोत्रसञ्चये स्तुतिमिति तनुतं जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुताः / स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराऽचिरान् ममापि // 9 // __ (औप० इति० द्वाविंशश्रीनेमिजिनस्तोत्ररत्ननामा द्वानिशो मूलतय तरङ्गः।। अथ श्रीपार्श्वजिनस्तोत्ररत्नम् 23 ( उपनातिः ) जगजयश्रीप्रभुताफलं स्याद् , यहिसेवाविधिकल्पवल्लेः / तं पार्श्वसंसेवितपार्श्वदेशं, पाचप्रभु स्तौम्यहिरानसेव्यम् // 1 // यथेष्ट संवत्सरदानकाले, सुरदुरत्नत्रिदशादिकम्यः / ददौ प्रभावं यममी तमद्या-प्याविभ्रते पार्थविभुं श्रये तम् // 2 // सहस्त्रशीर्षोपि (पेण) मया क्षमा धृता, प्रकम्पतेऽनेन तु चेतसापि न / इतीव भक्त्या फणिराड निषेवते, यमङ्कमिट पार्श्वविभुः स पातु माम् // 3 // ते सेवेऽहं श्रेयसे पार्थमाज्ञा, विश्वव्यापी (प्ता) कल्पवल्ली यदीया / त्रैलोक्यस्य द्वन्द्वतापस्य ही, दत्ते सर्वाभीष्टसम्पत्फलानि // 4 // शालिनी अस्मिन्प्रभावऽमृतदेऽपि सति श्रितानां, द्वेष्यः किमेप जगतो विपतो भवामि ? / ध्यात्वा फणीत्यमृतमर्थयते यमङ्क दम्माद् भजन जिनमिमं प्रणतोऽस्मि पार्थम् // 5 // (वसन्त०) सप्तद्वीपरवीन् विनित्य भगवान् ज्ञानप्रकाशाद् निजाद , धत्ते सप्तनयध्वजान् फणिफणव्याजेन यो भास्वरान् / विश्वेच्छाविषयप्रदान निपुणस्त्रैलोक्यरक्षागुरुः, ___ स श्रीपार्श्वविभुर्दधत्वविरतं चित्ते निवासं मम // 6 // (शार्दू) नो विद्वेषिभयं दुरामयभवं दुःखं न चोज्जम्भते. ___दुष्टक्ष्मापखलादिभी भविनां चौरादिशङ्का च नो / न क्लशोपि जनुर्नरामृतिमयो यस्या यस्य स्मृतेः, श्रेयोवल्लीनवाम्बुदः स भगवान् पार्थप्रभुः पातु माम् ॥७॥(शार्दू "Aho Shrut Gyanam"