________________
स्तोत्रसञ्चये
पातालयक्षप्रभुणाऽनुशाह्व-देव्या च ते रक्षितभक्तराशेः । सेवेत सर्वावहरं तु तीर्थ, श्येनोऽङ्कमिट् पादयुगं स्वशुद्धये ॥४॥ भ्रमन्ननन्तेषु भवेषु वैरि-पराभवैरेव भृतोऽस्मि देव !।। प्रभुस्त्रिलोक्या अपि रक्षणेऽसि, स्वमाश्रितं तत् किमुपेक्षसे माम् ?॥५॥ जगत्सतत्त्वानि विचार्य लेभे, दुःखक्षयायौपयिक मर्यकम् । त्वय्येव नाथत्वधियो निवेश-स्ततोऽपि नाद्यापि कथं सुखी स्याम् ? ॥६॥ आशक्रकीट विविधोच्चनीच-भवोद्भवान्तादिकदर्थनासु । पराक्रमो यस्य समो विमोह-रिपोस्त्वमेवाऽस्य जिनाऽसि जेता ॥७॥ ततो भियाऽस्माच्छरणं श्रितोऽस्मि, पदौ तवैवाहमनन्ततः!। अतस्तथा द्राक् कुरु निर्भयं मां, यथा परानन्दनमयः सदा स्याम् ॥८॥ स्तुतिमिति मतिमास्तनोति यस्ते
___ऽखिलरिपुक्षेत्रगुणामनन्तनेतः ।। सुरवरमुनिसुन्दरस्तवानां,
स पदमनन्तसुखाद्वयोऽचिंरात् स्यात् ॥९॥ औप. इति० चतुर्दश श्री : अनन्तजिनस्तोत्ररत्ननामा चतुर्दशो मूलतश्च तरङ्गः॥
अथ श्रीधर्मजिनस्तोत्ररत्नम् १५ (शालिनी) स श्रीधर्म ! त्वं जय श्री जिनेन्दो !, श्रेयः सर्व संस्तुतिर्यस्य दत्ते । तस्मादेतां कुर्वते सर्वशक्त्या, देवेन्द्राधा योगिनश्चाप्यशेषाः ॥१॥ पास्येवाऽन्ताद्यापदो नाथ ! विश्वं, नीलं वासः क्रूरतां मन्दतां वा ।। खभ्रान्तिं वा नैव धत्से कदाचित् , ख्यातश्चित्रं भानुसू नुस्तथापि १२।। भक्तिं धत्ते यः सुते सुव्रताया-स्तस्मिन् भक्ता स्यात्त्रिलोक्यप्यनस्त्रम् । द्वषे तस्मिन् यश्च कुर्यात्कदापि, द्विष्टाः सर्वाः सम्पदोऽस्मिन् सदापि ॥३॥ कन्दर्पाय॑ किन्नरोपासनीयं, विश्वेशं योऽन्यानुवृत्त्यादिनाऽपि । श्रीमदधर्म वन्दते वन्दते तं, मामाधीश्वराली क्रमेण ॥४॥ मन्ये विश्वप्राणिनां संश्रितानां, दुर्निर्भेदादृष्टभूभृद्गणानाम् । भेदार्थ यो वज्रमच्छलेना-जस्रं धत्ते धर्मनाथं श्रये तम् ।
॥६॥
"Aho Shrut Gyanam"