________________
त्रिदशतरङ्गिणी
3
विषयमोहगुणाद्यनुचिन्तना-चितमलं जलवज्जिन ! मे मनः । विमलतां नय हे विमलप्रभो !, निजगुणोत्करकातकचूर्णतः मिलिताः किल गर्भनिवासिना, स्वजननीमतिदेहगुणास्त्वया । मिलितं च जगज् जिन ! केवलोन्दयजुषा किमु मां तदुपेक्षसे ? ॥४॥ परकुतर्कंगणा भ्रमयन्ति ये, सुखततेः स्पृहयालुतया जगत् । तव मते रमयन्ति मनस्विनो, जिन ! त एव विचारितगोचराः विषयगृध्नुत्रचोऽनुगचेतस-स्त्वदुद्विते न रतिं दधते जनाः । तदिह शूकरलाञ्छन ! नाद्भुतं, जहति किं न सरोऽशुचिपा द्विका: ? ॥६॥ पदजुषस्तव षण्मुखयक्षराड्, जिन ! सुखाकुरुते विजयाऽपि च । तदिदमीयगुणानुगमीश ! मा मपि सुखाकुरुतामभितोऽपि तौ चिरमनन्तभत्रभ्रमणार्दितस्तत्र पदौ शरणं समुपागमम् ।
विमलनाथ ! तथा कुरु मां यथा, जिन ! भवाम्यचला मितशर्मभाक्॥ ८ श्यामापि माता विमलीकृता स्वा-वस्थानतो येन जिनेन गर्भे । हृदि स्थितोऽयं विमलो पङ्क - हृतेर्दयाब्धिर्विमलीक्रियान् माम् ||९|| स्तुतिमिति मतिमास्तनोति यस्ते, विमलविमोऽखिलवाञ्छितार्थदात्रीम् ।
"Aho Shrut Gyanam"
113 11
11911
11611
सुरवरमुनिसुन्दरस्तवानां,
स पदमनन्तसुखाद्रयोऽचिरात् स्यात् ॥ १०॥ औप० इति ० त्रयोदशश्री विमलनाथस्तोत्ररत्ननामा त्रयोदशो मूलतश्च तरङ्गः ॥ अथ श्री अनन्तजिनस्तोत्ररत्नम् १४ ( उपजाति: ) अनन्तसम्पत्प्रभवः स्तुतः स्यादनन्तसंसारजयश्रिया यः । अनन्तगौरामितकान्त कीर्ति-मनन्तमन्तमहं स्तुवे तम् ॥ १ ॥ तत्रावतारस्य विभो ! महिम्ना कथं न माता सुयशा भवेत् सा ? 1 गीतं सुरेन्द्रैरपि देव ! यस्या, मुदा यशः पूरितदिवितानम् तव प्रभावाज्जनकस्य सेनां, सिंहोपमां शत्रुगणो ददर्श । मृगोपमं स्वं तु रणेषु मेने, स सिंहसेनः प्रथितस्ततोऽभूत्
॥२॥
॥३॥