________________
॥२॥
स्तोत्रसम्चये अथ श्रीवासुपूज्यजिनस्तोत्ररत्नम् १२ ( रथोद्धता) सर्व दैत्यविजयश्रियोज्ज्वलो, यं मरुत्पतिरभीक्ष्णमार्चयन् । सर्वकालमतिभक्तितः प्रभु, तं स्तवीमि वसुपूज्यभूपनम् ॥॥ नो गुणश्च न च रूपसम्पदा, वर्तते त्रिभुवन तवोपमा । नो मणीभिरथवा महत्त्वतः, सागरस्य हि मो जलाशयः अर्जितं चिरकृतान्तसेवया, पातकं क्षपयितुं तु सैरिभः ।। सर्वपापहरमीश ! ते श्रित-स्तीर्थमहियुगमङ्कदम्भतः । ॥३॥ श्रीजयाङ्गजं ! कुमारसेवित, चण्डया सततमर्चितं तव ।
योउंहिपद्मयुगलं निषेवते, तं जगत्त्रयमिदं निषेवते ॥४॥ भीरु भीमविषयद्विषां गणान्न त्यजेच्चपलतां च मे मनः ।
तत्तथा निजगुणैर्नियन्त्र्यता-मेतदीश ! भवति स्थिरं यथा ॥५॥ रोषतोषरहितोऽसि चेतथाप्यर्थ्यसेऽभिरुचितं तनोषि च ।
ईदृशोऽपि हि सुरद्रुमोऽर्थितः प्रार्थितं प्रददतेऽर्थिनां फलम् ॥६॥ वासुपूज्य ! विहरन् यथा भुवि, त्वं हरस्यसुमतामुपद्रवान् । ध्यानशक्तिशतो हृदि स्थितो, विद्विषो मम हराऽऽन्तरांस्तथा ॥७॥ त्वां निरीक्ष्य बहुतर्कलोचनै-देवतेषु परमं फलप्रदम् । एवमम्तवमशेषविद्विषा-मर्थये त्वविषयं पदं प्रभो !
॥८॥ स्तुतिमितिमतिमाँस्तनोति यस्ते, मुवनविभो ! जिनराज ! वासुपूज्य । सुरवरमुनिसुन्दरस्तवानां, स पदमनन्तसुखाद्वयोऽचिरात् स्यात् ॥९॥ औप. इति० द्वादशश्रीवासुपूज्यजिनस्तोत्ररत्ननामा द्वादशो मूलतश्च तरङ्गः।।
अथ श्रीविमलजिनस्तोत्रम् १३ ( द्रुतविलम्बितम् ) विमलबोधमवाप्य जयश्रिया, विषममोहरिपोः स्ववचोऽम्बुदैः । वृजिनपङ्कहृतेविमलीकृता-ऽऽश्रितकुलं विमलं जिनमाश्रये यदि भयं भवतां भवतान्तितो, भनत तत् कृतवर्मनृपाङ्गलम् । तदपहारविधौ हि बुधा मुधा, भवगतापरदैवतसंश्रयः
॥२॥
11१॥
"Aho Shrut Gyanam"