________________
त्रिदशतरङ्गिणी
यत्सम्भवं फलमशेषफलातिशायि,
स्यात्तद् व्यधामिमामितीदृशमस्तु तन्मे ||८| वसन्ततिलका स्तुतिमिति मतिमाँस्तनोति यस्ते, जिनवर ! शीतलनाथ ! विश्वतायिन् ! सुरवरमुनिसुन्दरस्तवानां, स पदमनन्तसुखाद्वयोऽचिरात् स्यात् ।।९॥औप० इतिः श्रीशीतलजिनस्तोत्रनामा दशमो मृलतश्च तरङ्गः ॥
अथ श्रीश्रेयांसजिनस्तोत्ररत्नम् ११ ( उपजातिः ) श्रेयांसनेतुः स्तवनेन मोह-जयश्रियं हस्तगतां विदध्याम् ।। त्रिलोकमैत्रीजसि मोहशत्रौ, जिते हि जेयं नहि किञ्चिदस्ति | | माता पिता वा तव विष्णुरस्तु, श्लाघापदं यन्नतिरर्थिताप्त्यै । देवान्तरं तद्गमुक्तमन्येन्यं, विष्ण्वन्तरं नाथ ! खपुष्पतुल्यम् ॥२॥ श्रेयांसभक्त्या मनुनं कृतार्थ, स्तवीमि यक्षेष्वहमीश्वरं वा । सा मानवी कस्य न माननीया !, श्रेयोऽर्थिनी श्रेयसि याऽतिभक्ता॥३॥ आजन्महिला अपि सेक्या ते, पापविमुक्ताः पशवोऽपि हि स्युः । एवं निबुध्येव तवांहिपीठं, निषेवते चिह्नमिषेण खड्गी
॥४॥ त्वत्पादसंस्पर्शपवित्रितानि, रसायनामानि रजांस्यपीश !। वन्द्यानि शकोपमऋद्धयोपि, त्वदंहिसेवाविमुखास्तु निन्द्याः ॥६॥ संसारनैर्गुण्यमपीन्द्रियाणां, दुरन्ततां वेनि जिनागमात्ते । ठकैः प्रमादैर्वशतां तु तेषां, नीये तदेतान् हर नाथ ! मेऽरीन् ॥७॥ इति स्तुतस्तीर्थपतिर्मयाऽपि, श्रेयांसनामा पुरुहूतपूज्यः । भीतं द्विधा वैरिगणात् प्रसद्य, क्रियात् सदा निर्भयशर्मकर्म ॥८॥ स्तुतिमिति मतिमांस्तनोति यस्ते, भुवन विभोऽखिल वान्छितार्थदात्रीम् । सुरवरमुनिसुन्दरस्तवानां, स पदमनन्तसुखाद्वयोऽचिरात् स्यात् ॥९॥
औप० इति. एकादशश्रीश्रेयांसजिनस्तोत्ररत्ननामा एकादशो मूलतश्च तरङ्गः ।
* इतःपरं पञ्चमं काव्यं नोपलभ्यते ।
"Aho Shrut Gyanam"