________________
स्तोत्रमञ्चये
यदचिन्त्यमनन्तमव्यये, परमैोगिभिरर्थ्यते सुखम् ।
जिन ! यत्र तदेव वेतनं, करवै तत् खलु दास्यमेव ते । ७॥ न भवारिजयश्रियः परं, फलमीहेत कृती तव स्तवात् ।
इयमेव तव प्रसादतो, भवतात् तात! ममाचिरेण तत् ॥८॥ स्तुतिमिति मतिमाँस्तनोति यस्ते, सुविधिविभोऽखिलवान्छितार्थदात्रीम् । सुरवरमुनिसुन्दरस्तवानां, स पदमनन्तसुखाद्वयोऽचिरात् स्यात् ॥९॥
__
औप०
इति० श्रीसुविधिजिनस्तोत्ररत्ननामा नमो मूलतश्च तरङ्गः ॥
अथ श्रीशीतलजिनस्तोत्ररत्नम् १० ( रयोद्धता ) शीतलोऽपि हिमवद् भवद्विषो, मोहनक्षमदहज्जयश्रिये ।
यः शिवाध्वसुगमीकृतीच्छया, तं स्तुवे जिनवरं जगद्गुरुम् ।।:॥ केवलं दृढरथः पिता न त, निवृतिपुरे स्वमेयुषाम् ।
ज्ञानदर्शनचरित्रवर्णना-प्रापणे दृढरथस्त्वमप्यसि ॥२॥ नन्दया यदि विभो ! तवाम्बया, गर्भगे त्वयि पितुः क्षतः क्षणात् ।
गाढदाहदहनस्त्वया ततो, दुःखदाहदहने किमद्भुतम् ? ॥२॥ यक्षिणी तरुवरश्च सेवया, प्राप केवलमशोकतां न ते ।
उद्भवां हतिविहारदेशना-दर्शनैस्त्रिजगतीननोऽपि तु ॥४॥ ब्रह्मयक्षपरिषेवितक्रम, शीतलं त्रिजगतीसुरद्रुमम् ।
संस्मरन्नपि जनोऽनतेऽर्थितं, क्लिश्यते किमु ततः क्रियान्तरे ? ॥५॥ शीतलेशपदपङ्कज हृदि, स्थापयन्नमलभक्तितो जनः ।
कृत्रिमेतरविपद्णोद्भवं, सर्वतापनिचयं नयेत् क्षयम् ॥६॥ शिश्रियुर्विविधदेवतान्तरा-णीश ! येऽपि शिवसम्पदिच्छया । तैरपि त्वमधिपः श्रयिष्यते, नापरोऽस्ति हि शिवार्थिनां पथः ॥७॥ श्रीवत्सलाञ्छनजिनेश ! जगन्नमस्य !;
स्तोत्रस्य कोपि महिमा तव सोऽस्त्यऽचिन्त्यः ।
"Aho Shrut Gyanam"