________________
त्रिदशतरङ्गिणी
माहस्तेषां विश्वनैत्रोनितेभ्यो, रागा दिभ्यश्चेतसां भीषिद्भयः । त्वत्सिद्धान्तप्रौढदुर्गस्य मध्ये, नावस्थान यानि जातु त्यजन्ति ॥६॥ किं वाच्योऽयं कर्मणां ही विपाकः, केचिद्यस्मात्सत्यपि त्वय्यधीशे। संप्ताराब्धेीरवोपि श्रयन्ते. मोहादीनां धाम देवान्तराणि ॥७॥ यस्य स्तोत्रे स्यात् समीहाऽप्यनन्त-श्रेयःप्राप्त्यै किं पुनावृतत्वम् । स श्रीधर्मः शत्रुभीतिप्रशान्त्या, तन्यान् नाथः शाश्वतं मे प्रमोदम् ॥८॥ स्तुतिमिति मतिमाँस्तनोति यस्ते,
त्रिभुवनपालक ! धर्मतीर्थनेतः । सुरवरमुनिसुन्दरस्तवानां,
स पदमनन्तसुखाद्वयोऽचिरात् स्यात् ॥९॥ औप, इति० पञ्चदशश्रीधर्मजिनस्तोत्ररत्ननामा पञ्चदशो मूलतश्च तरङ्गः ॥
__ अथ श्रीशान्तिजिनस्तोत्ररत्नम् १६ (उपनातिः) जयश्रिया भारतभूपतीनां, यः पञ्चमश्चक्रभृतां बभूव । मोहाद्यरीणामथ पोडशोऽर्हन् , शान्तिं तमीडे जिनमार्तिशान्त्यै ॥१॥ निर्वाण्युपास्यं गरुडार्चनीयं, श्री विश्वसेनोरुकुलाम्बरार्कम् । भनन्ति ये श्रीअचिराङ्गनं तान् , सुरेशितारोऽप्यनिराद्भजन्ते ॥२॥ निनाभिवोच्चारकृतोऽखिलार्ति-शान्तिं वितन्धन् ध्वनिवस्तुनोर्यः ।। तादात्म्यमावेदयते प्रशान्तिं, स शान्तिनेता नयतादयं मे ॥३॥ प्रमाथशक्ति तमसो निजारे-गिन् मृगाङ्कोऽनुमितः स्वचिह्नात् । निषेवते यं किल सर्वभीतीः, स मे निहन्यान्मृगलाञ्छनोऽहन् ॥४॥ अदा जगद्यो जननादिभिः स्वैः, शान्ते ! सुरङ्ग किमहं कुरङ्गः । सुरङ्गता मेऽस्त्विति यं मृगोऽङ्क-निभान्नु विज्ञाय यते ! भजे तम्॥५॥ विधोः सुधातोऽभ्यधिकां विभावयन् ; मृगो नु जन्मान्तनरादिनाशनात् । वचःसुधां यस्य पिपासुरङ्कता, भजत्ययं शान्तिजिनः शिवाय मे ॥६॥ स्मरापहारी न भवाश्रयः सदो-दिताक्षर श्रीर्गतनाड्यगोततिः । कुरङ्गदोषोज्झनकृत्तमोऽर्दयन् , जिनोऽवतान्मां मृगलक्षणो नवः ॥७॥
"Aho Shrut Gyanam"