________________
स्तोत्रसम्चये इमौ जिमस्याखिलमङ्गलावलौ, धत्तः प्रभुत्वं सकलार्थितप्रदौ। वदन्नितीवाऽकमिषात तव क्रमौ, निषेवते स्वस्तिक एष बोधिदः ॥५॥ सुखानि सर्वाण्यतिशेरते ध्रुवं, विभो ! गरिम्णा शिवशर्मसम्पदः । इमास्त्वदाज्ञैव तनोति चाहता, बुघास्त्वदन्यं कथमाश्रयन्ति तत् ? ॥६॥ असांवृतब्रह्मविवर्तवैभव, विधेयवैधुर्यविवर्जितं तव । निरूप्यते यन्मुनिभिर्निरावृति, स्वरूपमिच्छाम्यधिगन्तुमीश ! तत् ॥७॥
वंशस्थम् अनन्तकालं भ्रमता ततो भवे, मयाऽसि नाथः शरणीकृतोऽधुना । सुपार्श्व ! मोहारिजयश्रियोज्वलं, निजस्वरूपादपृथक् कुरुष्व माम् ॥८॥
वंशस्थम् स्तुतिमिति मतिमांस्तनोति यस्ते,
भुवनविभोऽर्थितदायिनी सुपार्श्व !। सुरवरमुनिसुन्दरस्तवानां, स पदमनन्तसुखाद्वयोऽचिरात् स्यात्
॥९॥
औपच्छन्दसिकम् इति श्रीसुपार्श्वजिनस्तोत्ररत्ननामा सप्तमो मूलतश्च तरङ्गः ।।
अथ श्रीचन्द्रप्रभजिनस्तोत्ररत्नम् ८ (उपजातिः) वपुस्त्विषा प्राप्य विधोध्रुवं यो, जयश्रियं स्वाहियुगस्य नित्यम् । चकार त सेवकमकदम्भा-चन्द्रप्रभ श्री जिनमेनमीडे स्वदेहदीप्तिप्रचयेन शुक्ल-ध्यानाह्वयज्योतिष आन्तरस्य । यो वर्णिकां दर्शयते प्रबुद्धां-स्तदेव देयात् स जिनोऽटमो मे ॥२॥ पीतोऽस्मि गर्भाऽवतरेऽस्य मात्र त्यथोऽपि मां मा स्म पिबत् कदाचित् । इतीव भीत्यांऽह्रियुगं यदीय, विधुर्भजत्येष जिनोऽवतान्माम् ॥३॥ नित्यं यदंहिद्वयसेवयाऽऽप्त-पुण्येन मन्ये सततं सितांशुः । वक्रोऽपि मौलौ ध्रियते हरेण, स चन्द्रलक्ष्मा क्षिपतादयं मे ॥४॥
"Aho Shrut Gyanam"