________________
त्रिदशतरङ्गिणी
शिरस्त्विदं बिभ्रतु वासवाद्याः, सूर्यः करे श्रीः कुरुतां गृहं वा।
__ तथापि मुक्तिस्तव सेवयैवे.त्यकं मिषत्वां किल सेवतेऽब्जम् ॥४॥ जनुर्जराऽन्तादिभयोर्मिकीर्णे, भवाम्बुराशौ पतितो बिभेमि ।
ततो निजाज्ञातरणिं प्रदाय, प्रसद्य नंतः ! कुरु निर्भयं माम् ॥५॥ दत्से स्वभक्तौ स्थिरचेतसा त्वं, समीहितार्थान् जिनराज ! जाने । स्पृहाऽस्ति सौख्येषु न चेतसस्तु, स्थिरत्वमस्यां मम तत् कथं स्याम् ॥६। स्वदोषतप्तो बहुधा विकल्पै-रिति प्रभो ! व्यग्रमना: स नाऽस्मि । कमप्युपायं शरणागतं तत, प्रशाधि मां येन लभेऽर्थिताऽर्थान् ॥७॥ अथवाऽल्पमपि स्तुतोऽर्थिनां, ददसेऽभीप्सितसाधनान्यपि । तददृष्टनयश्रियोऽप्यहं, जिन ! मोदे कृतवानिति स्तुतिम् ॥८॥
वैतालीयम् इत्थं यो महिमाम्बुराशि-कुसुमश्यामानिषेव्यं स्तुते,
__ श्रीपद्मप्रभतीर्थनाथममलं कल्याणमालालयम् । शक्रालीमुनिसुन्दरस्तुतिततीरहन्नदृष्टद्विषो, जित्वा स्यादचिरात्पदं स सुकृती सर्वेष्टसौख्यश्रियाम् ॥९॥
शार्दूल. इति श्रीपद्मप्रभजिनस्तोत्ररत्ननामा षष्ठो मूलतश्च तरङ्गः !
अथ श्रीसुपार्श्वजिनस्तोत्ररत्नम् ७ (उपजातिः) सुपार्श्वनेतर्भगवन् ! जयश्री-महःसुखज्ञानशिवप्रदायिन् ! । स मे सहर्षत्रिदशेन्द्रवृन्द-स्तुतक्रमाम्भोरुह ! वाञ्छिताप्त्यै ॥१॥ मातङ्गत्यक्षः कुशलानि यस्य, पदो श्रितानां भविनां तनोति । शान्ता प्रशान्ति सकलापदां च, भजे सुपार्श्व त्रिजगत्प्रभुतम् ॥२॥ बभार पृथ्वीतनयोऽपि यो वपुः, सुवर्णकान्ति प्रमुरार्जवं सदा । ज्ञमित्रतां निश्चलतां च खातिगः, सुपार्श्वदेवं तमुपैमि निर्भवम् ॥३॥ प्रमुः प्रतिष्ठात्मजतां श्रितोपि यः, शुभप्रतिष्ठोद्भवकृत् प्रणेमुषाम् ।। स निष्ठितार्थो हृदि तिष्ठतान् मम, प्रथिष्ठरत्नत्रयनिष्ठतां ददत् ॥४॥
"Aho Shrut Gyanam"