________________
स्तोत्रसञ्चये
भुवनाधिप ! मेघनोऽप्यसि, स्तुतिमानः खलु मेऽघहृद् यतः ।
जनयस्यपि मङ्गलात्मजः, सततं त्वं विपुलं च मङ्गलम् ॥२॥ इति ते स्तवने कथं यते, न ? जडोऽपि स्वधियोऽनुसारतः।।
सुखलभ्यशभात्मसत्फले, नहि मन्दोऽप्यलमो हि कर्मणि ॥३॥ कलितोऽपि शिवश्रिया प्रभो !, दवसे क्वापि न भैरवाकृतिम् ।
भजसे जिन ! सर्वमङ्गला-श्रितरूपोऽपि सनातनस्थितिम् ॥४॥ शिवसून कुमारतां श्रितो, दधसे क्रौञ्चमथाङ्कसङ्गतम् । जिन ! तारकमित्रतां भजन् , जगति स्वामितया श्रुतोऽद्भुतम् ॥५॥ युग्मम् चरणौ तव विभ्यतां भवा-च्छरणं यो जिन ! वज्रिणामपि ।
हृदि तो मम तिष्ठतां स्थिरा-वियता नाथ ! लभे कृतार्थताम् ॥६॥ यदि ते कुशलाभिलाषुकं, यदिवा क्लेशभयातुरं मनः ।
जनते ! सुमतिं प्रपद्य तन्जिनराज सुमतिं प्रभुं भज ॥७॥ भगवन् सुमते ! प्रसीद मे, स्वमते देहि मतेः स्थिरां स्थितिम् ।।
भवते विमतेर्जयश्रिया, सुखमेषोऽपि जन: शिवस्य यन् ॥८॥ एवं भासुरभक्तितुम्बरुमहाकालीसमासे वित,
__ यत्तीर्थाधिपति स्तवीति सुमति कल्याणमालालयम् । शकालीमुनिसुन्दरस्तुतिततीरहन्नदृष्टद्विषो, जित्वा स्यादचिरात्पदं स सुकृती सर्वेष्टसौख्यश्रियाम् ॥९॥ शार्दूलवि.
इति०श्रीसुमतिजिनस्तोत्ररत्ननामा पञ्चमो मूलतश्च तरङ्गः !
अथ श्रीपद्मप्रभजिनस्तोत्ररत्नम् ६ ( उपजातिः ) जगत्त्रयीजित्वरमोहशत्र-जयश्रिया प्राप परं पदं यः ।
पद्मप्रभं पद्मदलोपमाक्षे, स्तुवे तमहन्तमनन्तपद्मम् ॥१॥ स सान्वयं नाम निज ततान, धरः पिता ते जिन ! जन्मकाले !
यथेष्टदानर्धरति स्म सद्यो, दारिद्यकूपे निपतज्जगद्यः ॥२॥ मात्रेकसीमानमवाप्य सापि, माता सुसीमा तव सान्वयाऽभूत् ।
जगत्त्रयत्राणविधौ नदीष्णु-मजीजनद्या भुवनोत्तमं त्वम् ॥३॥
"Aho Shrut Gyanam"