________________
स्तोत्रसञ्चये विबुधजनमनो मुदुल्लासनप्रत्यलप्रेलवदिद्ध प्रमाणौवकेलीमहाभूमिभृद्धोरणीबन्धुरः सूक्तसन्दोहभास्वत्प्रवालालयो देवताधिष्ठितः ॥३॥ अपहर भयमजसा मम्भृतस्य भ्रमोद्रेकरूपेण संसारपायोनिधेर्वीतरागोक्तसिद्धान्तलोधप्रथायानपात्रप्रदानेन वाग्देवि !, विश्वार्चिते !, सुमधुरगतिनि:स्वन हंसमारूढक्त्यङ्गिनां त्वं शिवाऽऽकाक्षिणां लोलरोलम्बझंकाररावरिवोद्गीयमानालसत्सौरभं बिभ्रती पुण्डरीकं करे। सितकरहरहारनीहारशुभ्रप्रभाभासमाने समानेतरोल्लासिभक्त्यानमन्नाकिनाथाङ्गनाचक्रवालोत्तमाच्युतोदारसिन्दूररेणूत्करै-ररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेषिणि! क्रोधपूरादिवाशेषविश्वत्रयीबोधिरत्नापहारप्रगल्भस्फुरद्विक्रमोद्दण्डदोत्कटे ॥ इति श्रीवीरदण्डकस्तुति नङ्गछन्दसा श्रीमुनिसुन्दरसूरीणां कृतिरियम् ।।
"Aho Shrut Gyanam"