________________
स्तोत्रसञ्चये
अथ श्रीवीरजिनस्तुतिः । (भुजङ्गदण्डकः) २५ त्रिभुवनविभवीप्सितार्थप्रथाप्रत्यलत्वातिकल्पद्रुमोग्रप्रभावस्फुरत्-सौरभाद्यक्रमाम्भोजरोलम्बलीलावलम्ब्युल्लसद्भक्तिसंनम्रनाकाधिराट , नरपतिततिमौलिसन्मौलिभास्वत्प्रभाजालविद्योतितोपान्तदेशस्त्वमर्हस्त्रिलोकैकयन्धो ! धराधीशसिद्धार्थवंशानभषामणे ! वर्द्धमानप्रभो! ।।
कुवलयवनकोकिलश्यामलागाधमोहान्धकारप्रकारापहारार्कबिम्बोपमापारकारुण्यपाथो निधे! धामधाम्नां विधेहि प्रसधाऽऽशु मे बिभ्रतः, सुकरुणरसगो चरत्वं चिरं भीष्मसंसारकान्तारवासोद्भवैर्दुःखपुरैःश्रितस्याधुना पादयुग्म त्वदीयं कथञ्चित् पुराणैरगण्यैः शिवम् ॥१॥ वितरतु मम निर्वतेः शर्म सा सन्ततिस्तीर्थराजां विचक्रे सुपर्वेश्वरैर्देशनासद्मयस्यास्तदेकश्रिया भ्राजितं भामराभ्रंलिहादभ्रवप्रत्रयी, परिगतमुरुकिन्नरस्त्रीसमारब्धगीतप्रतिश्रुन्निनादौत्रवाचालिताऽऽशान्तरालं प्रमोदात् प्रनृत्यत्सुरालीक्रमाघातसक्षुब्धगोत्राचलम् ।।
त्रिदशततिभिराहतोद्दामवादित्रचक्रोद्गतैर्यत्र कोलाहलैः स्फातिमुर्ती श्रितैर्नाकिनाथोच्छितोद्यत्पताकावलीनद्धसकिङ्किणीनिक्वणैः सङ्गतैः, तरलिततरतारमीयुस्तुरङ्गाः किलाहर्मणेर्यानयुग्यास्तथा त्रासमत्यद्भुत नैव कुत्राप्यवस्थानमेकत्र सम्प्राप्नुयुस्ते याद्यापित्रस्ता इव ॥२॥ __ भवतु भवभिदे ममानन्तसङख्यार्थवाच्याक्षरालीजलागाधमध्ये जिनेन्द्रक्तसिद्धान्तपाथो निधि:वरैरप्यगम्यस्तनूत्मकृपोल्लासिवेलाकुलो, बहुविधनयभङ्गकाप्रत्नरत्नात्करभ्राजितोऽप्राप्तपार: सुपाठीनमालाभिरप्युल्लसद्धेतुरङ्गत्तरङ्गावलीमालितः प्राज्ययुक्तिप्रथाशुक्तिभृत् ।
पृथुचतुरनुयोगदीव्यत्तटःस्पष्टदृष्टान्तमुक्ताकलापाचितान्तः प्रदेशो मुनीन्द्रादिसवृत्तिसर्पत्तिमिश्रेणिभिः, सङ्कुलः श्रीनिवासो गभीरत्वभ
"Aho Shrut Gyanam"