________________
स्तोत्रसञ्चये भुवनपालक ! केवलसंविदा, कलयताऽप्यखिलार्थगणं त्वया । किमहकं कलितो न सुदुःखितो, मदवने भविता किमथ क्रमः ? ॥३॥ सममशेषविदो न भिदादिमा, कमजुषं जिन ! मामव तद्भवात् । न करुणा तब विष्टपगोचरा, सुगुणवद्विगुणेऽपि हि हीयते ॥४॥ भुवि यथोपकृतो रविशीतरुग्-जलधरा गुणदोषदृशो न वै। त्वमसि नाथ ! तथाऽऽश्रितपालने, भवभयादियतैव धृतिर्मम ॥५॥ समधिगम्य विशेषमशेषतः, शरणमेष भवन्तमथाऽऽगमम् । इति मयाऽऽतिभृतोचितमादधे, त्वमथ नाथ ! जिनोचितमाचर ॥६॥
झलशब्दस्तवः ॥
अथ श्रीशान्तिजिनस्तवनम् । २४ (वंशस्थम् )
जयश्रियं यस्तनुते स्मृतेरपि, प्रणेमुषां कर्मभटारिसङ्कटे । स्तवीमि तं शान्तिजिन जगद्ग, शिवाप्तये टिम्बकनामके पुरे ॥१॥ विवेकवैधुर्यपरिप्लुताशय-न यैः स्तवस्ते भगवन् ! विधीयते । विधीयते शर्मसु तैः स्पृहापि किं ?, विना हि बीजं नहिं शस्यसम्भवः॥२॥ तव स्तुर्ति येऽपि जिनाऽऽहता बुधा, न तैः प्रयत्नः क्रियतां सुखाप्तये । अपेक्षते कल्पलता किमुद्यम, समीहया या ददतेऽर्थिनां फलम् ॥३॥ समग्रशर्माभ्युदयैकहेतवे, भवार्णवोल्लङ्घनसारसेतवे । जिनाय तुभ्यं सकृदानताः पुन-नमन्ति न त्वामपरं च कञ्चन ॥४॥ फलं विभाव्येत्यलपः परानतो, नतो प्रवृत्तस्तव दुर्विधोऽप्यहम् । प्रसीद तन्नाथ ! भवाम्यभीष्टभाक्, समो हि सर्वेष्वपि ते कृपारसः ॥५॥ स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुतांहः । स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराऽचिरान्ममापि ॥६॥
इति शान्तिजिनस्तवनम् ॥
"Aho Shrut Gyanam"