________________
४३
स्तोत्रसम्चयः
अथ श्रीजिनमहिमस्तवः १८ (द्रुतविलम्बितम् ) शिवपदप्रभुतां दधतं जय-श्रियमवाप्य महाऽऽन्तरविद्विषाम् ।।
जिनपतिं भवभीतिविभेदनं, सकलवाञ्छितसिद्धिकरं स्तुवे ॥१॥ त्रिभुवनोपकृतिक्षमवैभवा, जिनपतेऽतिशयादिगुणोच्चयाः। इह वदन्ति तवैव शिवधियां, वितरणे शतधा स्तवनार्हताम् ॥२॥ किमपि नाथ ! तवाद्भुतमङ्गना-गणवशीकृतिपाटवमीक्ष्यते । त्वदभिधाऽपि हि यत्र भवेदिम, भनति मुक्तिरपीष्टसमृद्धिवत् ॥३॥ तव हगम्बुजयोरखिला रमा, जिन ! वसन्त्यनुभूतिमियर्त्यदः । निपततः खलु ये पुनरेधि मे, प्रविलसन्ति सदापि यदेषु ताः ॥४॥ दृगतिथिस्त्वमभूर्मम शैवलो-लवणमहादवाप्तितिमेरिव । जिनशशीव विमोहतमोहते-वितर केवलबोधसुखोदयम्
इति जिनमहिमस्तवः ॥ अथ श्रीजिनमङ्गलस्तवः १९ (औपच्छन्दसिकम् ) प्रभुतां शिवसम्पदामवाप्या-न्तरविद्वेषिजय श्रिया कृतार्थम् । स्मृतिवन्दनपूजनस्तवेभ्यो, भुवनाभीष्टकरं जिनं स्तवीमि ॥ सुरपादपधेनवः फल यद् , विविधाराधनतोषिता ददन्ते । ददते स्मृतिमात्रमीश ! किञ्चित् , तव नामाप्यवहीलना यतोऽस्मिन् ॥२॥ सकलेप्सितशर्मदानदक्षं, स्पृशति त्वां मनसापि यो मनीषी। विपदो न कदापि संस्पृशन्तिस्पृशतोऽके न तमांसि भीतये यत् ॥३॥ तब रूपमनन्तमेव शमें-त्युदितं योगिवरैर्विभाति चेदम् । त्वयि येन हृदैकतां प्रपन्नेऽनुभवः स्यात्किल तस्य भक्तिभानाम् ॥४॥ अखिलं प्रवितर्य देवतौघं, त्वयि देवाऽध्यगम प्रभुत्वबुद्धिम् । इति संस्तुवतः पदौ तव द्वौ, मम देयाः पदमेकमेव तेऽर्हन् ॥५॥
नमङ्गलस्तवः ।।
"Aho Shrut Gyanam"