________________
॥३॥
स्तोत्रसञ्चये अथ श्रीजिनमङ्गलस्तवः २० (अनुष्टुप् ) पर श्रियःपदं प्राप्तं, सकलारिजयश्रिया ।
___ स्तुवेऽर्हन्तं स्वजन्मादि, सुखाकृतजगत्त्रयम् संस्पृशत्कृतिनां चेतो, यं शुद्धैकगुणात्मकम् । रज्यते नितरां रक्तानप्यन्यांस्तु विरज्यते
॥२॥ केवलं केवलं यस्य, ज्ञातुं महिमवैभवम् ।
क्षेमतेऽक्षमतेनैव, विषयस्तत्पर हि यत् यस्य नेतुः पदाम्भोज, संस्मरन्तोऽपि भाविनः । सर्वापत्तापनिर्मुक्ताः, शीतीभाव भजन्त्यहो !
॥४॥ निनः स जगतां नेता, प्रणेता पुण्यसम्पदाम् । शरणं शरणं शैव-सुखस्याभीष्टदोऽस्तु मे
॥५॥
इति श्रीजिनमङ्गलस्तवः ! अथ श्रीजिनभक्तिस्तवः २१ ( वैतालीयम् ) प्रभुरक्षरशर्मसम्पदं, भगवान् मोहजयश्रियाऽऽप यः । मुवनार्थितकल्पपादप, तमहं स्तौमि जिनं जगद्गुरुम्
॥१॥ जिन ! कल्पितसम्भवे फले, स्पृहया केऽपि परान् स्तुवन्ति चेत्ः स्तवने तव तत् सुनिश्चिता-ऽक्षरशमोधकलेऽपि कोऽलसः ? ॥२॥ पशवोऽपि मुदोल्लसन्ति यां, गिरमद्वैतगुणां निशम्य ते ।। हृदयं न तयापि तोष्यते, जिन ! येषां तुन वेभि के तु ते ! ॥३॥ जगतामसि पालने प्रभुः, करुणा क्यापि न हीयते च ते । जहतो विषयं तयोस्तथाऽप्यधियः क्लेशजुषः कथं भवे ? ॥४॥ तब लाययतां मनः स्तवे, कृतिनां किन्नु तपस्क्रियादिभिः । कनकोद्भवकर्मवेदिनां, धनलाभौषयिकैर्हि किं परैः । तव गोचरतां स्तुतेर्गुणा, दधतेऽनन्ततया न कस्यचित् । सफलोऽत्र मम श्रमः पुन-जनुषः स्वस्य फलेग्रहित्वतः
"Aho Shrut Gyanam"