________________
४२
॥१॥
स्तवपञ्चविंशतिका अथ श्रीजिनमङ्गलस्तवः १६ ( अनुष्टुप् ) आनन्दाद्वैतदातारं, जयश्रीद्धं जगत्पतिम् ।
श्रीजिनं भक्तितः स्तौमि, दिष्टविष्टपमङ्गलम् तानाऽऽयुश्विरमारोग्य-मष्टावपि महर्द्धयः ।
___ इन्द्रश्रीः शिवसम्पच्च, श्रयन्ति त्वां स्तुवन्ति ये ॥२॥ सुराः किङ्करतां यान्ति, मन्त्राः सिद्धयन्त्यभीष्टदाः । ग्रहाः स्युर्वरदास्तेषां, येषां त्वं हृदि तिष्ठसि
॥३॥ दुःस्वप्नं दुनिमित्तं वा, दुष्टा भूपाः सुरादयः ।। अनुकूलत्वमेवाशु, त्वन्नतेर्दधतेऽङ्गिनाम्
॥४॥ सर्वे श्रेयोऽर्थिनो विज्ञाः, श्रेयोमूलं च ते स्तुतिः ।
इति त्वां स्तुवतो मेऽहन्निष्टश्रेयःप्रदो भव ॥५॥ (स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुतांहेः । स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराऽचिरान्ममापि ॥६॥)
इति श्रीजिनमङ्गलस्तवः ॥ अथ श्रीजिनब्रह्मस्तवः १७ ( अनुष्टुप् ) परानन्दपदायार्हन् भवाऽमित्रनयश्रिया ।
त्वदनन्तगुणाम्भोधौ, रमयामि निनां गिरम् ॥१॥ विकल्पास्पृष्टरूपाय, निर्द्वन्द्वपरमेष्ठिने ।
निरुपाधिपरानन्द-शालिने ते विभो ! नमः ॥२॥ ध्यानेन त्वन्मयीभावं, कथञ्चिद्याति यः सुधीः ।
तत्त्वदेक्यपथेनैव, स महानन्दमश्नुते ॥३॥ तव सम्यकस्वरूपस्याप्यनुभूत्यक्षमा वयम् ।
कविडम्बरिणोऽनन्तांस्त्वद्गुणान् स्तुवतः स्तुमः ॥४॥ तात ! तत्प्रार्थये देहि, मम काञ्चन तां कलाम् । याथात्म्यात्त्वत्स्वरूपस्यैवानुभूतिर्भवेद्यया ॥५॥
इति जिनब्रह्मस्तवः ।।
"Aho Shrut Gyanam"