________________
૨૮
स्तोत्रसञ्चये
भवभयहरणं जगच्छरण्य, शरणमहं तमुपैमि वर्द्धमानम् । कलियुगधनदुर्दिनेऽधुनापि, स्फुटयति तत्त्वपथान् यदाऽऽगमार्कः ॥७]
__औपच्छन्दसिकम् एवमानुत! भवारिजयश्री-प्राप्तये निरुपधि मम बोधिम् । वर्द्धमान जिन ! देहि यतः स्या-मर्थतस्तव पितुः समनामा ॥८॥ स्वागता
इति वर्द्धमान जिनाष्टकम् अथ साह पुरश्रीपार्श्वनाथस्तवनम् १० (वंशस्यम् ) जयश्रियां सङ्गममाप्तुमिच्छवः, स्तुवन्ति यं सर्वसुरेश्वरा अपि । जगत्त्रयत्राणकरं तमानुमः, पार्श्वप्रभु साहपुरे कृतस्थितिम् ॥१॥ यथा निशायां प्रसृतांस्तमोभरान् ,
निहन्तुमेवोदयते दिवाकरः । दुःखोत्करान् नाथ ! तथोद्गतान् जग
त्यपासितुं प्रादुरभूस्ततोऽव माम् 1॥२॥ वृथैव ताम्यन्ति भना: समीहया,
सुसम्पदामोपयिकैरनेकशः । तासां परं ह्यौपयिकं वशीकृतौ, त्वन्नाममन्त्रप्रणिधानमेंककम्
॥३॥ दुरासदास्ता जगदीह्यमानाः, सुखश्रियः प्राणिषु तावदेव । यावन्न लब्धा तव पादसेवा, कल्पद्रुमाप्तो हि सुदुर्लभं किम् ॥४॥
उपजातिः भवन्ति ते स्नानजलेन सिक्ता. ग्रस्ता महाऽऽभैरपि दिव्यदेहाः । भजन्ति किं सिद्धरसानुभावात् , सुवर्णभावं नहि लोहपिण्डाः ? ॥५॥ त्राताऽमरेन्द्रादिजगत्त्रयस्य, त्राण कियन् मे लुठतस्तवांयोः । धौता द्विवृन्दस्य कियद् घनस्य, प्रक्षालनं वा सिकताकणस्य ॥६॥ प्रसरन्नभितोऽशिवोच्चयः, प्रहतो यद्भवता किमद्भुतम् । अतिवर्षति दुर्द्धरोत्तरोन्नतवादे हि दवायः कियान् ॥७॥ वैतालीयम्
"Aho Shrut Gyanam"