________________
स्तवपञ्चविंशतिका
३७
अथ श्रीसीमन्धरस्वामिस्तवनम् ८ (उपजातिः) जयश्रियाडयं कनकाभदेहं, सर्वज्ञलक्ष्मीकलकेलिगेहम् । सीमन्धरं पूर्वमहाविदेह, विभपयन्तं जिनपं स्तुवेऽहम् । रूपं परं सन्ततमङ्गलाली, महत्त्वमुच्चैः परमा यश:श्रीः। ततिः सुखानां जिनसम्पदां च, तव प्रसादस्य जनेषु लीला ॥२॥ विलोकसे येन जगत्समग्रं, ज्ञानेन तेनैव जिनाऽसि गम्यः। तथापि विश्वोत्तरऋद्धिमान् 2-विलोक्यसे नाथ ! त एवं धन्याः ॥३॥ भीतो भवक्लेशततेभवन्तं, शरण्यमीशं शरणं प्रपद्ये । यदर्थयन्ते मुनयः सुयोगे--बच्चा सि गन्ता नय तत्र तन्माम् ॥४॥ यदर्थितं येन तदेव तस्य, त्वया ददे वत्सरमर्थ्यसे तत् । जन्मैव मा दा मम देव ! जन्म, चेत् तत्र यत्रास्यऽविता प्रभुस्त्वम्॥५॥
इति सीमन्धरस्वामिस्तवनम् अथ श्रीवईमान जनाष्टकम् ९ (वंशस्थम् ) जयश्रिये कर्ममहारिसन्ततेः, स्तुवन्ति यं विश्वगुरुं सुयोगिनः । तदर्थताया वशतोऽहमप्यनं, निरञ्जनं वीरजनं स्मरामि तम् ॥१॥ न केवलं नाथ! स सान्वयाभिधो, बभव सिद्धार्थधराधवः क्षितो। तवावतारेण जगत्त्रयीननोऽप्यवाप सिद्धार्थतयैव सम्मदम् ॥२॥ बाहक सुताप्त्यै त्रिशलां तनुं स्त्रियः, श्रितां स्तुमस्तां किल विश्वदेवताम् । अभवुषी या तव जन्मकर्मणा, सुरेश्वराणामपि संस्तुतेः पदम् ॥३॥ तल्ये कुरङ्गक्षितिकर्मणि प्रभो !, करं शिवे ते नरके तु मे गतिः ।। ममाप्यदो देहि जगच्छिवङ्कर!, त्वामर्थयतेति हरिः किलाङ्कभाक् ॥४॥ भयं हरन्तं भगवन् ! भवोद्भवं, श्रयन्ति ये त्वां शरणं मनस्विनः । कां त्वदीयामचिरादवाप्य ते, जगत्सु बृत्तिं दधते सुपालिनीम् ॥५॥ स्थैर्यतस्त्रिजगतीजयिनो मे, क्वीपमानमिममाहुरिहाऽऽर्याः । कम्पयन् सुरगिरि न्विति तान् योऽबूबुधज्जयति वीर जिनोऽयम् ॥६॥
स्वागता
"Aho Shrut Gyanam"