________________
स्तोत्रसञ्चये
त्वं पिताऽथ जननीगुरुरेक स्त्वं प्रमुर्मम तथा जगतोऽपि । त्वां ततः शरणमेकमुपेतः, किञ्चिदस्मि भगवन्नभिवाञ्छन् ॥५॥ ज्ञानदर्शनचरित्रसमृद्धिः, प्राग न मेऽस्ति विशदा सति चैवम् ।। यो भवेत् तव मतः सदुपाय-स्तेन मां शिवरमा नय नाथ ! ॥६॥
इति युगादिदेवस्तवनम् अथ श्रीयुगादिदेवस्तवनम् ७
( उपनातिः ): जयश्रियामेकपदं यदीय, बभूव राज्यं जगतां सुखाय । विमुक्तये च व्रतकेवलश्रीः, श्रीमधुगादीशमिमं स्तवीमि ॥१॥ हितानि कुर्वन् पितरत्यनिन्दितो, य एव धर्मो जगतामपि स्फुटम् । सूतेरमुष्यापि च यः पितामहो, मतः पुराणं पुरुषं स्मरामि तं ॥२॥ यतः स्म सर्वाः प्रभवन्ति नीतयो, जनानुगा मुक्तिपथानुगा अपि ।। घनाघनौघादिव सर्वतो लता-स्तमादिमं देवमुपास्महे विभुम् ॥३॥ गृहीतिनां कर्मसु न स्फुटेष्वपि, स्वभावशुद्धाऽऽर्नवभक्तिशालिनाम् । बभूव शास्ता वृषभप्रभुः पुरा, येषां स्तुमस्तानपि युग्मिनो जनान् ॥४॥ अयं विवोऽस्ति यदेकहेतुकः, शरीरिणां क्लेशविचित्रतामयः । निरस्य यो मोहतमस्तदप्यगात् , पदं परं तं वृषभप्रभु भजे ॥५॥ उपाधिनान् यः प्रविधूय विप्लवान् , सदोदितब्रह्मतनुःसुयोगिनाम् । निरिन्धनो वह्निरिवावभासते, निरञ्जनं तं पुरुषं स्मराम्यहम् ॥६॥ प्रभुः प्रजानां प्रथम जिजीविषू-नियोजयन् कर्मसु ता बभूव यः। क्रमात् प्रबुद्धः परमार्थदेशना-त्तथैव तेभ्यश्च वियोजयन्नपि ॥७॥ युगादिम देवमनन्सवेदसं, प्रवर्तकं सत्पुरुषार्थपम्पदाम् । प्रणौमि तं बोधिपदाप्तयेऽखिल-द्विषो व्यतिक्रम्य जयश्रियेऽपि च ॥९॥
इति युगादिदेवस्तवनम्
"Aho Shrut Gyanam"