________________
स्तवप-वविंशतिका त्वयि रक्षति केऽप्युपद्रवा, उचित नाभिभवन्ति यजगत् । हरिणा हरिणारिपालितं, वनखण्डं किमु भत्तु मीशते ? ॥८॥ एवं जगद्रक्षणे दक्षिण ! स्तुतः, पार्श्वप्रभो ! साहपुरावतंसक !। निरस्य सर्वद्विषतो जयश्रिय, सबोधिमारोग्यपदं च देहि मे ॥२!!
वंशस्थम् इति साहपुरश्रीपार्श्वनाथस्तवनम् अथ चतुर्विशतिजिनस्तवः ११ जयश्रीदायिनः श्रीमद्-वृषभाजितशम्भवान् । अभिनन्दनमानौमि, सुमतिं च जिनाधिपान् ॥१॥ ( अनुष्टु ) पद्मप्रभः सुपाचश्चन्द्रप्रभसुविधिशीतला: श्रेयान् । श्रीवासुपूज्यविमलाऽनन्ता धर्मश्च मां पान्तु ॥२॥ (आर्या) शान्तिः कुन्थुररः श्रीमल्लिमुनिसुव्रतो नमिर्नेमी । पाो वीरश्च जिना भवभीरोः सन्तु मे शरणम् ॥३॥ इतिभुवनकल्पतरवो नतसुरराजा नुता मयापि जिनाः । शिवपदसम्पदमतुलां, ददतां मम शुद्धबोधिकृते ॥४॥ [ मघवमहामुनिसुन्दरनुतिततिविश्रामभूमिगुणविभवाः । इति संस्तुता जिनेन्द्रा ददतां मे शर्म निजमेव ॥५॥
अथ चतुर्विशतिजिन्नस्तवः १२ ( अनुष्टुप् ) जयश्रीसङ्गिनो नौमि, चतुर्विंशतिमहतः । श्रीयुगादीशमजितं, शम्भवं चाभिनन्दनम् ॥१॥ सुमति सुमतिप्राप्त्यै, नौमि पद्मप्रभ प्रभुम् । सुपार्श्व विश्वकल्पद्रुप्रयं चन्द्रप्रभुं तथा
॥२॥] सुविधि शीतलं सार्व, श्रेयांसं श्रेयसे भजे । वासुपूज्यं च विमलानन्तौ धर्म च बोधिदान् श्रीशान्ति कुन्थुसर्वज्ञ, वन्देऽरं मल्लिसुव्रतौ ।
"Aho Shrut Gyanam"