________________
ॐ नमो जिनाय ॥ सहस्रावधानिश्री मुनिसुन्दरसूरिवरविरचिता
स्तवपञ्चविंशतिका ।
अथ मङ्गलशब्दार्थस्तवनम् १ ( अनुष्टुप् ) जय श्री जिनकल्याण - वल्लीपवनाम्बुद ! |
मुनीन्द्रहृदयाम्भोज - विलासवरषट्पद ! ॥१॥ तव नाथ ! पदद्वन्द्व सपर्यारसिका जनाः ।
सर्वसम्पत्सुखश्रीभिर्विलसन्ति सदोदयाः ||२॥ नृलोके चक्रिताद्या याः, स्वर्लोके चेन्द्रतादय: ।
शिवेऽनन्तसुखाद्यास्तास्तव भक्तिवशाः श्रियः ॥३॥ सर्वश्रेयः श्रियां मूलं ददद्धर्म समग्रवित् ।
योगक्षेमकरो नाथस्त्वमेव जगतामसि ॥४॥
त्वमेव शरण बन्धुत्वमेत्र मम देवता ।
तन्नां पाहि भवात्तात ! कुरु श्रेयःसुखास्पदम् ||५|| इति मङ्गलशब्दार्थस्तवनम् । अथ मङ्गलशब्दार्थस्तवः २ ( उपजातिः )
1
जयश्रियां धाम सुधामधारिन् !, सुत्रामदामार्चित ! देवदेव ! त्रिलोकपूजातिशयाभिगम !, प्रकाममानन्दननन्दनेतः वर्गत्रयस्यार्जनबद्धचेतसः, सुचेतसः कर्मसु सत्सु सूद्यमाः । ददात्यदो नाथ ! तत्र स्तवोऽत्र तदू, बुधा यतन्ते सकलाः फलार्थिनः ॥२॥ अयं महानन्दपदातये सतां हेतुर्विंशुद्धः प्रथितो मनीषिषु । इति प्रवीणा मुनयोऽपि ते स्तवे, रतिं दुधन्ते मत्र भोगनिःस्पृहाः ॥ ३ ॥ ॥ प्रवर्द्धमानोत्तममङ्गलावली, श्रियः सदानन्दरसोर्मित्रर्मिताः । सुखानि विश्वाशयविश्रमास्पदं प्रभो ! वशत्वं नयते तव स्तवः
"Aho Shrut Gyanam"
113 11
॥ ४ ॥