________________
स्तोत्रसञ्चये
त्रातारमेकं परम वदन्ति यं, मनस्विनोऽभीष्टदधर्मदानतः । जिनेन्द्र ! तस्मै भवते सदा जग - त्पितामहाय प्रमुतात्मने नमः ॥५॥
इति मङ्गलशब्दार्थस्तवः । अथ मङ्गलशब्दार्थस्तवः ३ (वैतालीयम् ) समवाप्य जयश्रियं जग- त्रितयी जित्वरमोहभूपतेः । त्रिजगत्प्रभुताश्रियां पदं, समभूद्यस्तमहं जिनं तुवे
॥१॥ इदमौपयिक शिवश्रियां, कृपणानामपि मादृशां सुखम् । जगदे कृपया महात्मभिः, करवै तेन तव स्तुर्ति विभो ! ॥२॥ त्वयि हृद्युदिते सतां रवा-विव खे स्युः कमला विकस्वराः । वितमःप्रसराः प्रभो ! धियः, पुनराशा इव सर्वतो जिन ! ॥३॥ वशगा धृतिकान्तिकीर्तयो, नरदेवप्रभुतादयः श्रियः । विभवो विभवस्तवाऽपि यः, स्तुतिवल्लेर्भवतः फलानि ते
॥४॥ सुपरीक्ष्य समनदातृषु, प्रमुरेकोऽर्थितदायकः श्रितः । मयकाऽर्थितया त्वमेव तत, परमानन्दपरं ददस्व मे
॥५॥
इति मङ्गलशब्दार्थस्तवः । अथ मङ्गलशब्दार्थस्तवः ४ ( अनुष्टुप् ) जगतां प्रभुतां प्राप, यो भावारिजयश्रिया ।
शाश्वतानन्दरूपं तं, श्रीसर्वज्ञ स्तुवे मुदा ॥१॥ प्रातिहार्यश्रिया वाणी-गुणैश्चातिशयोच्चयैः ।
योऽनन्तज्ञानद्धया च, त्रैलोक्यस्योपकारकः ॥२॥ शाश्वतं मङ्गलं नित्य-सुखं ते विश्वदैवतम् ।
त्रिलोक्याः शरणं त्राणं, नाथमे के जिनं भजे ॥३॥ युग्मम् । यस्थ नेतुः पदाम्भोज-पूनयाऽभीष्टसम्पदः ।
जायन्ते सर्वतोऽम्भोद-वृष्टयेव भुवि विरुधः ॥४॥
"Aho Shrut Gyanam"