________________
सञ्चयः
चैत्रे शितौ पञ्चमिकातिथौ यः, श्रीलक्ष्मणाकुक्षिमलञ्चकार । चन्द्रप्रमः श्रामहसेनभूप-कुलाब्जहंसः स सतां श्रियेऽस्तु ॥४९॥उपनातिः कृष्णचैत्राष्टमीजातजन्मव्रतं, दर्शितन्यायधर्मव्यवस्थं धुरि। नाभिराजाङ्गजन्मानमाद्यं जिनं, ध्यानसेवानमस्कारमार्ग नये ॥१०॥
स्त्रग्विणी यस्य शुक्ल मधुमामतृतीया-वासरे विमलकेवलमासीत् । तस्य सप्तदशकुन्युजिनेन्द्र-स्यां हियुग्ममहमन्वहमीडे ॥५१॥ स्वागता धवलचैत्रिकमासगपञ्चमी-समुपजातमहोदयसङ्गमान् । अजितशम्भवतीर्थपती तथा, जिनमनन्तमपि प्रणिदधमहे ॥५२॥
॥ द्रुतविलम्बितम् ॥ चैत्रशुक्लनवमीसमवाप्ता-नन्तमोक्षसुखसङ्गममीशम् । शीलयामि सततं सुमतिं श्री-मङ्गलोदरदरीहरितुल्यम् ॥५३॥ स्वागता चैत्रिकैकादशी सा सिता नो मता, कस्य यस्यामसौ पञ्चमस्तीर्थकृत् । मेघभूपाङ्गभर्भूतलप्रीतिदः, केवलज्ञानलक्ष्मीमुपा द्विभुः ॥५४॥स्रग्विणी मधुमाससितत्रयोदशी-रजनीजातजनुर्महामहम् । त्रिशलातनयं नयाम्यहं, जिनमन्तर्मनस सुवर्णभम् ॥५५॥ वैतालीयम् यस्त्रां सुसीमाधरराजनन्दनः, पद्मप्रभो ज्ञानमवाप पञ्चमम् । . सा पौर्णमासी मधुमासमण्डनं, विखण्डनं नो वितनोतु कर्मणाम् ॥१६॥
उपजातिः। चैत्रः ॥६॥ वैशाखकृष्णप्रतिपत् पवित्रा, कथं न यत्राऽजनि मोक्षलक्ष्मीः । श्रीकुन्थुनाथस्य सुवर्णकान्तेः, श्रीसुरराजेन्द्रतनूद्भवास्य ॥१७॥
इन्द्रवजा उपनातिः यो राधमासस्य शितौ द्वितीया-दिने महानन्दपदं प्रपेदे । श्रीशीतलं भूतलतायिन तं, नन्दातनूज परिपूजयामि ॥५८॥ उपजातिः स्त्रयशसा पृथवे जिनकुन्थवे, नृपतिपूरसुताय नमो नमः । असितमाधवपञ्चभिकातिथौ, य उदुवाह महाव्रतसम्पदम् ॥१९॥
॥ द्रुतविलम्बितम् ॥
"Aho Shrut Gyanam"