________________
जैनस्तोत्र
यैकादशी फाल्गुनिकस्य कृष्णा, सत्केवलज्ञानसमृद्धिलाभे। नाभेयदेवस्य निदानमासी-दाराधयेत्तां खलु धन्य एव ॥३९॥ इन्द्रवज्रा श्रीसुव्रतस्याजनि केवलश्रीः, श्रेयांसनाथस्य जनिश्च यस्याम् । सा द्वादशी फाल्गुनमासि कृष्णा, मुष्णातु तृष्णातुरतां नतानाम् ॥४०॥
इन्द्रवजा मासे तपस्ये बहुलत्रयोदशी-गृहीतचारित्रभरं जिनेश्वरम् ।। श्रेयांसनामानममानमत्सरं, भुजिष्यवनिर्भरभक्तितो भजे ॥४१॥ उपनातिः फाल्गुनासितचतुर्दशी तिथौ. देवक्तृप्तननिमज्जनक्षणम् । पूजयामि वसुपूज्यनन्दनं, पापतापशमनैकचन्दनम् ॥४२॥ रथोद्धता यः प्राबाजीत् फाल्गुने कृष्णपक्षे-ऽमावास्यायां विश्वरक्षकदक्षः । तस्य श्रीमद्वासुपूज्यस्य नाम-स्मृत्या नित्यं स्वं कृतार्थीकरोमि ॥४॥
शालिनी तपस्यस्य शुक्लद्वितीयादिने द्यो- वं भारती भूषयामासिवान् यः । अरं पारंग सर्वसंसारवाड़े-दधे ध्यानमार्गे सुवर्णधुर्ति तम् ॥४४॥
. भुजङ्गप्रयातम् धराधीशकुम्भप्रभावत्यपत्य, जिन मल्लिनामानमानौमि नित्यम् । चतुर्थी तिथौ फाल्गुने शुक्लपक्षे, क्षपाढे दिवोऽत्रावतीर्णो भुवं यः॥४५॥
भुनङ्गप्रयातम् तपस्यमासस्य सिताष्टमी सा, न कं जनं प्रापयति प्रमोदम् । श्रीशम्भवो यत्र जितारिभूप-वंशेऽवतारं रघयाञ्चकार ॥४६॥ उपजाति: तपस्यस्य सद्द्वादशी सा द्वितीया-ऽद्वितीयैव यत्रेति कल्याणयुग्मम् । शिवं मल्लिरेकोनविंशो जिनेशश्चरित्रश्रियं सुव्रतश्चाप विंशः ॥४७॥
: भुजङ्गप्रयातम् ॥ फाल्गुनः । श्लाघ्यैव कृष्णापि मधोश्चतुर्थी, पार्श्वश्च्युतिज्ञानमहात्मकेन । निजेन कल्याणयुगेन यत्रा-वातीतरत् स्वर्गरमामिहोाम् ॥४८॥ उप०
"Aho Shrut Gyanam"