________________
जैनस्तोत्र
वैशाखषष्ठ्यां बहुले धुलोकान् , नन्दोदरे योऽवततार सारे । श्रीशीतलः कोपढ़वानलेन, प्लुष्टं जगच्छीतलयत्वलं सः ॥६॥इन्द्रवज्रा राधकृष्णदशमी नमनीया, सा न कस्य विदुषः पुरुषस्य । या मुनि नमिजिनं शिवपुर्या, वर्यराज्यपदभाजमकार्षीत् ॥६॥स्वागता माधवस्य बहुलत्रयोदशी-जातजन्ममहिमं महाधतिम् । सिंहसेननृपनन्दनं नमः, कर्मतां जिनमनन्तमानये ॥६२॥ रथोद्धता ( अनन्तो व्रतं केवलं चाप यत्रामलं,
तथा कुन्थुनाथो जिनो जन्मकालोत्सवम् । इह त्रीणि कल्याणकान्येवमासन्भुदे चतुर्दश्यशुक्लाऽपि सा माधवी वः श्रिये ॥३॥
॥शक्वों छन्दोविशेषः) । चतुर्दश्यशुक्ला मुदे माधवीया, विकल्याणकीयं बभु(वे)ति यस्याम् । अनन्तो व्रतज्ञानलक्ष्म्याववापत् , तथा कुन्थुनाथो जनेरुत्सवं च ॥६३॥
. ॥ भुजङ्गप्रयातम् । यः शुद्धराधस्य तिथौ चतुर्थ्या, श्रीसंवरक्ष्मापकुलेऽवतीर्णः । सुवर्णवर्णः स भिनत्तु भूयो, भयं भवार्तेरभिनन्दनो वः ॥६४॥ उपजातिः सप्तमी सपदि माधवमासः, प्रीतिदा न न भवेदवदाता । यत्र धर्मपरमेष्ट्यऽवताराइ, भानुभूपकुलमु ज्वलमासीत् ॥६५॥ स्वागता वैशाखे विशदाष्टमीदिन यौ, लेभाते जननोत्सवं शिवं च । सुमतिश्री अभिनन्दनौ जिनौ तौ, तनुतामातनुतां ममाघराशेः ॥६६॥
औपच्छन्दसिकाऽपरान्तिका । राधशुक्लनवमीदिवसे यो-ऽशिश्रियच्चरणभारमुदारम् । मेघराजतनुमः स जिनेन्द्रो, न्यत्करोतु सुमतिः कुमतीन:
स्वागता वर्द्धमानजिनराट् चरणद्धि, नेनयीतु चरमः परमां नः । माधवस्य विशदा दशमी यं, प्रापयत् प्रवरकेवललक्ष्मीम् ॥६८॥ स्वागता
"Aho Shrut Gyanam"