________________
सञ्चयः
नूनमासन्नमोक्षा इपा द्वादश, स्युर्न कस्य प्रभो ! हर्षदाः पर्पदः !! या मुखालोकने देशनाकर्णने, दत्तचित्तोपयोगाः पुरस्ते स्थिताः ॥११॥ हस्तिसिंहं मृगव्याघ्रबभ्ररगं, श्वैणरक्ताक्षताक्खुमार्जारकम् । मुक्तवैरं मिथः स्नेहभृत्त विभो ! देशनासद्मगं के न चित्रीयते ? ॥१२॥ योजनोर्वी मिते देव ! ते स्थानके, मान्ति तिर्यग्नदेवा असङ्ख्या अपि। वागतिक्रान्तमाहात्म्यभाजस्त-तादृशामद्भुतानां न सङ्ख्याऽस्ति वा॥१३॥ त्वां नमन्ति द्रुमाः सर्व एवर्त्तव
श्चाश्रयन्त्याशुगा वान्ति पृष्ठानुगाः । पक्षिणो दक्षिणं यान्ति देवाऽखिलाः,
कण्टकाः स्युस्तयाऽधोमुखास्तेऽध्वनि रोगदुर्भिक्षमारीतिराजोद्भवा, नोद्भवन्ति प्रजानामिहोपद्रवाः । योजनानां सपादे शतेऽवस्यिते, त्वय्यहो! ध्वान्तसङ्घा यथोष्ण तौ॥१५॥ श्रीगणाधीश्वराणां त्रिपद्यर्पणात् , त्वं जगन्नाथ ! तीर्थप्रवृत्तिं यदा। आतनोषि स्म विस्मापितेन्द्रवन, भूरशेषा चभासे सनाया ततः ॥१६॥ इत्येवं केवलश्रीरभसभरसरीरम्भलाभाप्तशोभ,
भक्तिप्रवामरेन्द्रासुरनरनिकरारब्धपादाब्जसेवं । देवं यः स्तौति भक्त्या प्रतिदिवसमसौ पञ्चमज्ञानलक्ष्मीलीलासौख्यानि भुक्त्वा परमपदसुखान्यप्यवाप्नोति तूर्णम् ॥१७॥ (स्रग्धरा)
इतिज्ञानकल्याणकस्तवः ॥ ४ ॥
अथ श्रीनिर्वाणकल्याणकस्तवः १ (स्व.गता)
प्राप्तमुक्तिवनितामुखसङ्ग, ध्वस्तकर्मपटलं विकलङ्कम् ।
रूपगन्धरसहीनमनन्त, श्रीजिने नुवतिकर्म करोमि ॥१॥ मुक्तिमाश्रितवति त्वयि नाथे, भूरियं जिन ! बभूव गतामा ।
अस्तमाप्तवति भास्वति किं नो, द्यौर्भवेद् गलितकान्तिविताना ॥२॥
"Aho Shrut Gyanam"