________________
जनस्तोत्र
देव ! मुक्तिललना सुखलिप्सो-र्यत्र तेऽनशनमीश ! किलाssसीत् । तत्पदं तव पदैः परिपूतं, पूजनीयमिह कस्य न विश्वे ? ॥३॥ वीतराग ! तव निर्वृतिकाले, त्वद्वियोगजनितातुलदुःखात् ।
एककालममरासुरनृणां कन्दनध्वनिरभूदनिवारः देव ! दूरतरमुक्तिपदं ते, केवलार्ककलितस्य गतस्य ।
व्यानशेऽन्धतमसैः समकालं, विश्वमेतदखिलं क्षणमात्रम् 11311 त्वद्विजास्थि शुचि निर्जरराजो, मामहुर्मुहुरहो ! अधिनाकम् | भस्मरत्नमपि देव ! तनोस्तं, नाऽऽपि राजभिरपीह महार्घम् ॥ ॥ आपतद्भिरभितः परियद्भिर्देवदानवसुरी निकुरुम्ने: ।
२०
॥४॥
मोक्षपर्वरजनी तव जज्ञे, केवलघुतिमयी सकलाऽपि तीर्थकृत्तकमला विमलाऽपि त्यज्यते स्म भवता गतरूपा ।
॥९॥
>
आता सपदि सिद्धिवधूः किं, विज्ञता तव विभोऽभिनवेयम् ||८|| नैव जन्म न जरा न च रोगाः, क्षुत्तृषामृतिमुखा अपि भावाः । क्षिप्तकर्मपटलस्य कदाचिद्देव ! निवृतिगतस्य तत्र स्युः सिद्धिसौधमधिरूढवतस्ते, ज्ञानदर्शन बलप्रमदानाम् । सम्पदोऽनुभवतोऽखिलकालं, नान्तरं जिनपतेऽस्ति न चान्तः ज्ञानतोऽनवरतं जगदेतन् निर्वृतौ तव सुखं यदनन्तम् । लेशतोऽपि बत तस्य समस्ते, नास्ति विष्टपतलेऽप्युपमानम् सिद्धबुद्धपरिनिर्वृतमुक्त क्षीणदुःखकृतकृत्य मुखास्ते । संस्मृता बहुविधा अभिवाः स्युः, पापपङ्कविगमाय न केषाम् ? ॥ १२॥ इति विशृङ्खलयाऽपि गिरा मया, जिन ! नुतोऽसि महोदयमाश्रितः । स्वमिह तत् कुरु येन जिनेश ! मे, भवति ते पदवी नदवीयसी ॥१३॥ इति श्रीजिननिर्वाणकल्याणकस्तवः ॥५॥
कृताः पञ्चापि स्तत्राः तपागच्छेन्द्र श्रीसोमसुन्दरसूरिपादैः ॥
"Aho Shrut Gyanam"
11911
॥ १० ॥
॥ ११ ॥