________________
१८
जैनस्तोत्रसुलभसुकृतलाभ: सोऽल्पकालादपीश !,
श्यति निहतकर्मा मोक्षसौख्यं सुखेन ॥१२॥ (मालिनी) इति साधारणो दीक्षाकल्याणकस्तवः ॥३॥
अथ ज्ञानकल्याणकस्तवः ८ ( स्रग्विणी )
केवलालोकसङ्क्रान्तविश्वत्रय-स्यैकवाक्याऽस्तनैकप्रजासंशय! । बाढमप्यक्षमाङ्गां निजां गामिमां, गोचरे चारयाम्यद्य ते संस्तुतेः ॥ १॥ ध्यातवांस्त्वं यदा शुक्लभेदद्वयी-मादिमां मोहनीयक्षयकक्षमाम् । आविरासीत्तदा देव ! ते केवलं, प्रातरैन्द्रयां दिशीवांशुमन्मण्डलम् ॥२॥ वर्षमेतन्मुने ! ऽद्वैतहर्ष जने, दत्तदुःखप्रवासः स मासस्तथा । वासरः सौख्यभाभासुरश्चाभवत् , केवलं लेभिषे येषु संवेदनम् ॥३॥ शकचक्रयादिलोकस्य साऽा मही, यामधिष्ठाय शुक्लं भवान् ध्यातवान् । पादपोऽप्येष सङ्ख्यावदर्ग्यः स यच्छायमास्थाय संविच्छ्यिं भेजिवान्।।४।। विश्वमन्तर्गताशेषभावोत्कर, केवलज्ञानतः सर्वतः पश्यतः । गोप्यमन्तर्हितं दूरमभ्यन्तरं, वस्तु नास्त्येव किञ्चित्तवाऽनीक्षितम् ॥५॥ ज्ञानभाजः सुयोगैकरूपात् मनो, जातु माभूत कुयोगोऽस्य किञ्चिद्विभोः । पादभूम्यन्तराले किल स्वर्गिणः, स्वर्णपद्मान्यधुस्तेन ते सर्वदा ॥६॥ विश्वविश्वाधिपत्यैकसंसूचक, प्रातिहार्याष्टकं चैत्यवृक्षादिकम् ।। दैवतैर्देव ! ते निर्मितं भक्तितः, कस्य नाश्चर्यजायते वीक्षितम् ॥७॥ अन्यदेवेष्वदृष्टाश्रुतामद्भुतां, सम्पदं रत्नरैरूप्यवप्रादिकाम् । वीक्षमाणोऽपि हृष्येन् न यस्तावकी-मेष काष्टं दृषन् नाथ ! चञ्चाऽथवा ॥८॥ केऽपि देवाऽसुराः कर्तुमन्यत्र ये, त्वत्समं नाङ्गमङ्गुष्ठमात्रं क्षमाः। . देशनायाः क्षणे तेऽपि रूपत्रयीं, त्वादृशीं तन्वते ते प्रभावादहो ! ॥९॥ देवतिर्यग्नरश्रेणिसाधारणं, पुण्यपीयूषकुल्यैकतुल्यं विभो !।। वाक्यमायोजनागामुकं तावकं, कं न कुर्यात् समुत्कर्णमाकणितम् ? ॥१०॥
"Aho Shrut Gyanam"