________________
सञ्चयः
अथ दीक्षाकल्याणकरतवः ७ (मुजङ्गप्रयातम्)
स्तुवे चारुचारित्रमार्ग चरन्तं, जने सम्मदाद्वैतमुत्पादयन्तम् । महेन्द्रादिदेवैर्मुदाऽभ्यय॑मानं, जिनं ध्वस्तनिश्शेषभावारिमानम् ॥१॥ जगुर्ये पुरस्ते तपस्यां प्रपित्सोस्तदुत्साहकानीश! वाक्यानि भत्तया पदातिप्रवेका वोद्यद्विवेका, न लोकान्तिकास्ते सुराः कस्य शस्या:?||२|| ददानो महादान मिच्छानुरूपं, मणिस्वर्णदुर्वर्णकुप्यादिरूपम् । प्रनानां प्रभो ! निविशेष सहर्ष, भवे कल्पवृक्षायसे स्मैकवर्षम् ॥३॥ स्थाश्वेभशुद्धान्तपत्त्यादिपूर्ण, परित्यज्य राज्यं सुदुहेचमन्यैः ।। भवान् संयमैश्वर्यमीशोर्यकार्षी-द्विशेषज्ञ ! तेत्थं तवैवात्रभाति ॥४॥ त्वयि प्रस्थिते देव ! दीक्षां जिघृक्षावुदूहुर्मुदोद्भिन्नरोमोद्गमा ये। अहंपूर्विकातो जना याप्ययानं, त एवं स्वकार्येकसिद्धयेकतानाः ॥५॥ मृगेन्द्रासनच्छत्रसच्चामरादि-श्रिया संयमार्थं पुरान्त नस्त्वम् । विमानाधिरूढः प्ररूढाधिकश्री-नतः संस्तुतः प्रेक्षतोऽसीश ! धन्यैः॥६॥ वनं पावन तन् मुने ! यस्य मध्यं, त्वयाऽध्यापि चारित्रलक्ष्मीविवाहे । द्रुभो निस्समोऽसौ महातीर्थयों, तलेऽस्थापस्त्वं निजी यस्य पादो॥७॥ विमुच्या खिलाङ्गाद्यलङ्कारवारं, स्वयं मुष्टिभिः पञ्चभिर्लोचमुच्चैः । सृजन्तं भवन्तं जना येऽभ्यपश्य-नवश्यं दृशःश्लाघनीयास्तदीयाः ॥८॥ स्वयम्बुद्धभावस्य सिद्धप्रणामोत्तरं सर्वसामायिक गृह्णतस्ते । मुदाऽवन्दिषातां पदाम्भोरुहे यैः, सुजन्मान एते ध्रुवं भाविभद्राः ॥९॥ पुरा ज्ञानलब्धित्रयर्या समृद्धं, द्रुतं योगमारूढवन्तं भवन्तम् । स्वसङ्केतहतव तुर्याऽतिवर्या, प्रपेदे मनःपर्ययज्ञामलक्ष्मीः ॥१०॥ यथा केशरोमादिकां सस्क्रियां ते, नरा निर्मिमाणा मुने ! सौवभक्त्या। तपस्यां प्रपन्नस्य साऽस्थात्तयैवेत्यहो! योगमाहात्म्यना तेऽङ्गसिद्धिः ॥११॥ इति नुतिविषयं त्वां यो नयत्यात्मभावा
चरणविधिविधूताशेषकर्मप्रपञ्चम् ।
"Aho Shrut Gyanam"