________________
जैनस्तोत्र तव जन्मनि सुत्यऽगारतः, परितो योजनमानभूतले । वरगन्धजलाभिषेचनं, चेलक्नोपमरीरचन् सुराः अभवद्दिवि दुन्दुभिध्वनिः, सुमवृष्टिश्च जनुःक्षणे तक। समलाः सकला जलाशयाः, स्वापः प्रापुरतिप्रसन्नताम् ॥५॥ शिखिनोऽपि च दक्षिणार्चिषो, निखिला जज्वलुरुज्वलस्थिते ।। ऋतवश्च षडप्यवातरन् , वनदेशेषु विशेषतः स्वयम् तव सूतिविधेविधायिकाः, पुरतश्चामरदीपधारिकाः । ददिरे जिन ! शान्तिकारिका, न मुदं कस्य दिशां कुमारिकाः ॥७॥ सकले समकालमेव ते, जनुषि प्रादुरभन्महामहः । त्रिजगत्यथवाऽस्ति वास्तवं, न किमेकं चरितं तवाद्भुतम् ॥८॥ निजकुक्षिसुरत्नधारिकायै, जगदुद्योतकदीपदे ! नमस्ते । इति शंसति यां पुरा तुराषा-डुपमेया तव केन सा प्रसूः स्यात् ? ॥९॥ जनुषा तव ये पवित्रिता, दिनमासाऽयनहायनर्त्तवः जगदेकजयावहा विभो ! सुखदास्तेऽद्य ममापि संस्मृताः ॥१०॥ ददृशेऽशनमम्बयापि ते, नहि नीहारविधिश्च जन्मतः ।। शुचिता भुवनेऽप्यनुत्तरा, यदहो ! स्तन्यमपीश ! नापिषः ॥११॥ तव जनुःसमये जिन ! नारकाः, अपि भवन्ति समे सुखिनः क्षणम् । तदपराऽसुमतां तु किमद्भुतं, ननु सुखानुभवे मुवनेश्वर ! ॥१२॥ द्रुत. तव जनुःस्वपनोदकपावितं, दिविजराजसमाजकृतोत्सवम् । सुरगिरेः शिखरं जिन ! कस्य तन् , न जनयेन्निनदर्शनवासनाम् ॥ १३॥ कनकरूप्यमणीगणबर्षणैः, सुरकृतैस्तव जन्मनि मोदतः । जनकरानगृहाङ्गणभूमिका-ऽभवदिह स्फुटरोहणभूरिव ॥१४॥ वपुषि ते रुधिरामिषमुज्ज्वलं, जिन ! निकाममनामयवर्मणः । श्वसितमप्यनुपाधिसुगन्धि यत् , क इव वास्त्यपरोऽतिशयोऽमुतः ॥१५॥ इतिजनुःसमयस्मृतिहेतवे, तव नवं स्तवनं जिन ! यः पठेत् । विगतविघ्नभरः प्रतिवासरं, स लभते वरमङ्गलमालिकाम् ॥१६॥
इति जन्मकल्याणकस्तवः ॥२॥
"Aho Shrut Gyanam"