________________
सञ्चयः
त्वय्यागते कुक्षिसरो मरालवत , स्वप्नानपश्यज्जननी चतुर्दश । भावित्वदीयोरुगुणश्रियां किल, स्वस्वानुरूपं दिशतः समुच्छ्यम् ॥४॥ नानानिधानानि पदे पदेऽपि, प्रकाशयन् गर्भपदस्थितोपि । भृत्यादिकस्यापि न कस्य कस्य, प्रमोदहेतुर्भगवन्नभूस्त्वम् ? ॥५॥ त्वां कुक्षिकोणे जननी दधाना, सौन्दर्यतेजःसुषमामवाप । यथैव बिभ्रत्यमलाऽभ्रमाला, स्वाभ्यन्तरे दीप्रप्तहस्ररश्मिम् ॥॥ कथं स राजा त्रिजगज्जनानां, न श्लाघनीयोऽनघसर्वभावः ? । वं पूरको विश्वमनोरथानां, प्राप्तोऽवतारं जिन ! यस्य गेहे ॥७॥ महीगृहग्रामपुराकराद्य, तद्वासवस्यापि न किं नमस्यम् ? । त्वयेश ! विश्चैकसुखाकरेण, निजावतारेण पवित्रितं यत् ॥८॥ इन्द्रादिदेवैर्महित: प्रमोदाद, गर्भावतारोऽजनि ते यदाऽर्हन् । आविर्भवद्भरिशुभानुभावा, भूरप्यभद्देव ! तदैव सर्वा
॥९॥ इतिच्यवननामकं जिनवरेन्द्रकल्याणकं,
तव स्तवनगोचरं विनयभक्तिभावादहम् । नयन् न परमैहिकं किमपि नाथ ! नवार्थये,
परं कुरु ममाक्षयं प्रवरबोधिलाभोदयम् ॥१०॥ (पृथ्वी) इति साधारणः च्यवनकल्याणकस्तवः ॥॥
श्रीजन्मकल्याणकस्तवः (६) मुवनमोहनरूपसुसम्पदः, प्रणतवासवमौ लिमिलत्पदः। जनिमहस्तवनेन तव प्रमो!, सफलतां गमयामि निजां गिरम् ॥१॥(द्रुत) तव जन्मनि चेतनावता, कतुकं किं यदि तम्मदः सताम् । चतुरङ्गुलकी मुदश्वसद्य-दचैतन्यवती धरित्र्यपि ॥०॥ (वैतालीयम् ) समिरः सुखकद्ववौ तदा, तरवः फेलुरकाल एव च । अभवंश्च दिशोऽतिनिर्मला-स्तव जन्माननि भारते यदा ॥३॥
"Aho Shrut Gyanam"