SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र विध्वग्दोषाकलुषपरमब्रह्मरूपैकमूर्ते !, ___ स्वामिन् मूर्ति त्वमसमतमज्योतिरुद्योतिताशाम् । स्वीयां बिभ्रन्नवनवमहाखण्डरूपस्वरूपां, स्वस्मिन् नाविर्जनयसि नवब्रह्मगुप्त्यात्मकत्वम् ॥६॥ (मन्दाक्रान्ता) मन्ये नूनं त्वया यद्रिपुत्रलमखिलं रागदोषादिमुख्यं, जिग्ये देवाऽन्तरङ्गं समरभुवि महातेजसाऽप्येककेन । तेनाङ्गेम्वेपु जातान्यभवत च नवस्वप्यमूनि क्षतानि, प्रत्यक्षं वीसितानि क्षितिमुकुटमहावीरतां व्यञ्जयन्ति ॥७॥ स्रग्धरा नवभ्यः खण्डेभ्यः स्वयमयमुपादाय धरणे विधाताऽणून सारान् व्यधित नियतं किं किल तनुम् । अभूवंस्तेनाङ्गे तव नव विभागाः पृथगिति, प्रभो ! मन्ये यस्मात्क्वचिदपि न हीरक परवपुः ॥८॥ (शिखरिणी) इति प्रातर्भक्त्या प्रतिदिनमधीते तव नवं, __स्तवं यः श्रीपार्श्व ! प्रथितनवखण्डाभिध ! विभो ! । नवोदग्रौवेयकमुखमहासौख्यविभवं, विभुज्यासौ भुङ्क्ते ननु नवभवान्तः शिवसुखम् ॥९॥ इतिश्रीसोमसुन्दररिकृतः श्रीनवखण्डपार्श्वनाथस्तवः ।। श्रीच्यवनकल्याणकस्तवः साधारणः ॥ (५)(उपजाति.) गर्भाक्तीर्ण भववाड़ितीर्ण, स्तुवे जिनेन्द्रं प्रणतामरेन्द्रम् । पापापनोदत्रिजगत्प्रमोद- हेतु तमोहं गुरुभक्तितोऽहम् ॥॥ स्वद्धा त्रिलोक्यामपि निस्समाना-दिवो विमानान् ननु नाथ ! तस्मात् । कथं महीयं न महीयसी स्यान् ?, निरस्य यद्यां स्वयमाश्रयस्त्वम् ॥२॥ मत्यादिकज्ञानवस्त्रयर्द्धिा यावती पूर्वभवे तवासीत्, गर्भागतस्यापि सहैव साऽऽगात्, सौभाग्यभङ्गी तव काप्यपूर्वा ॥३॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy