________________
सम्वयः
मया भाग्ययोगेन दीपोपमान
स्त्वमद्याऽसि दृष्टो गुणैर्दीप्यमानः ॥१२॥ तयाऽऽलोकनादेव मे देव ! कष्टं,
समग्रं जिन ! स्तम्भनाधीश ! नष्टम् । प्रभातेऽथवा भानुबिम्वेपि दृष्टे,
तमोजालमा किमु स्थातुमीष्टे ? ॥१३॥ गुणागार ! संसृत्यरण्यान्तराले, .
भवानन्यतीर्थावलीवृक्षजाले । मयेतस्ततो भ्राम्यता सार्थनाथ !,
शिवाध्वन्यवापे भवोधाग्निपाथः ॥१४॥ सुपर्वद्रुमस्वर्गवीकामकुम्भ
स्फुरद्देवरत्नादिका अप्यदम्भम् । न भावा विभो ! दुर्लभाः किनत्वपापं,
त्रिलोकीतले शासनं ते दुरापम् ॥१५॥ तथाभव्यताऽऽदित्यकान्तिप्रयोग
प्रबुद्धेषु विध्वस्तरागादिरोग !। सतां मानसाब्जेषु खेलत्सहेलं,
प्रभो ! भृङ्गसि श्यामलाङ्गाऽनुवेलम् ॥१६॥ त्वदीयोरुमाहात्म्यवन्नाममन्त्र
स्मृतेरप्यनन्ता द्भुतज्ञानसत्र ! । करिव्याघ्रसिंहोरगारातिभूता
धीतिः क्षणात क्षीयतेपि प्रभूता ॥७॥ भवापारवारांनिधौ विश्वनेत
महादु:खनीरेऽन्तरङ्गारिजेतः ! । नृणां मज्जता तारणायोरुकाष्ठ
तरण्डायते शासनं ते गरिष्ठम् ॥१८॥
"Aho Shrut Gyanam"