________________
जैनस्तोत्र
चरीकर्ति तेऽर्चा जनो यो वरिष्ठा
म्चरीभर्ति भक्तिं च चित्ते पटिष्ठाम् । नरीनर्ति कीर्ति ने तस्य वर्य, .
सरीसर्ति वा चिन्तितं सर्वकार्यम् ॥१९॥ प्रसर्पत्प्रभावस्य तेऽल्पस्य (प्र) भावा,
विभो ! नैव साम्यं श्रयन्तेऽन्यदेवाः । प्रभाभ्राजमानस्य भानोः किमेते,
लभन्ते तुलां तारका अप्यनन्ते ? ||२०११ स्वचित्ताऽऽलवालप्ररूढा वरेण्य
क्रियातोयपूरेण सिक्ता शरण्य !। तवाज्ञामहाकल्पवल्ली जनानां,
फलैः पुम्फुलीतीप्सितैः सज्जनानाम् ॥२१॥ सदाऽचीचरद्देवराजैः स्वदास्य,
तथाऽचीकरयो महेशेन लास्यम् । जनेऽवीवृतत् स्वामिहाज्ञां च काम,
त्वमहन्ननैषीस्तमप्याशु कामम् ॥२२॥ विभो ! कल्पवृक्षस्यभीष्टार्थदाने,
सुधाम्मोदसि क्षेमवल्लीविताने । दिनेशायसे भव्यराजीवचक्रे,
त्वमिन्दूयसे वा सुदृग्दृष्टिचक्रे ॥२३॥ अदीपिष्ट भूमौ भवानीश ! विश्वं,
स्वतोऽबोधि सज्ज्ञानयोगेन विश्वम् । अपूरिष्ट कीर्त्या समस्तं त्रिलोक,
_ तथाऽतायि सुक्ष्मेतरं जीवलोकम् ॥२४॥ श्रीस्तम्भनाभरण ! पार्श्व ! भवन्तमेवं,
प्रातः स्तुते प्रतिदिनं धनवासनो यः ।
"Aho Shrut Gyanam"